Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
शास्त्रावतारः. प्राधीतस्यैकरूपप्रयतननियतादेकरूपोपकाराविद्यास्थानैक्यसिद्धौ क्रमनियतियुताकायैकप्रबन्ध्यम् । अध्यायादिष्विवावान्तरविषयफलाद्यन्यताऽत्राप्यभेत्ती तत्तुल्यः कर्तृभेदः कलिबलकलुषैः कल्पितोऽर्थे विरोधः ॥ ११ तत्तद्वैशिष्टयभेदाद्यदगणि भिदुरा देवता पूर्वभागे संज्ञावैषम्यमात्रादपि कथमियताऽधीतयष्टव्यभङ्गः । उद्देश्याकारभेदोऽस्त्ययमिह हविषामुक्तिभिन्ने प्रयोगे दौर्बल्यं त्वक्षवेधान्मितिचरमतया द्रव्यतो देवतायाः॥ १२ जैमिन्युक्तं विरुद्धं यदिह बहुविधन्दर्शितं मूत्राकारैस्तस्मादत्रैकशास्त्र्यं हठकृतमिति न ब्रह्मसंवाददाढात् । तन्नस्तात्पर्यभेदैर्विहतिपरिहृतिः काण्डवत्काण्डयोस्स्यात् बाह्यक्षेपार्थगूढाशयवचनभवद्धान्तिशान्त्यादिसिद्धेः॥ १३ आक्षिप्य स्थापनीयाः कतिचिदिह नयाः पूर्वकाण्डप्रणीताः केचिद्युत्पादनीयाः कचिदषवदनं ख्याप्यमौत्सर्गिकस्य । इत्थं सर्वत्र चिन्ताक्रम इति समतां वीक्ष्य मध्यस्थदृष्टया शास्त्रैक्ये पौनरुत्यप्रभृतिपरिहतिस्सावधानैर्विभाव्या ॥ १४ वृत्तिग्रन्थे तु जैमिन्युपरचिततया षोडशाध्याय्युपात्ता सङ्कर्षः काशकृत्स्नप्रभव इति कथं तत्त्वरत्नाकरोक्तिः । अत्र ब्रूमस्सदुक्तौ न वयमिह मुधा बाधितुं किञ्चिदर्हा निर्वाहस्तूपचारात् कचिदिह घटते ह्येकतात्पर्ययोगः॥ १५ सौत्री सङ्ख्या १शुभाशीरधिकृतिगणना २चिन्मयी ब्रह्मकाण्डे तादत्र्येऽनन्तरत्वेऽप्यधिकरणभिदा नाल्पसारैः प्रकल्प्या। १. शुभाशी:-५४५.
। २. चिन्मयी-१५६.
For Private And Personal Use Only

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465