Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
अधिकरणसारावल्याम् प्रत्येकं लक्षणत्वं सुवचमिह बहूदाहृति(महिम्ने संभूयाप्याहुरेके फलमपि च तदाङ्कितार्थव्युदासः॥ ३७ ज्ञातं चेन्नोपलक्ष्यनच यदि नतरां लक्ष्मयोगाप्रतीतेः ज्ञाताज्ञातांशभेदस्त्विह दुरभिलपो लक्षणेनैव वेद्ये । ब्रह्मत्वं ब्रह्मशब्दान्वितिरपि विदितेऽन्यत्र नोचेन्न शङ्का मैवन्नानागमोद्यद्विशयशमनतः श्रीमति ब्रह्मतोक्तेः॥ यावल्लक्ष्यावबोधं यदवगतिरतो लक्षणात्तद्विशेष्यं यस्याबोधेऽपि पश्चाद्यदवगतिरिदं स्यात्कुतो नोपलक्ष्यम् । तस्माद् द्वेधापि भाष्येऽनुमतिरनुचितेत्याशयाज्ञस्य चोय । मोक्षार्थोपास्यभेदे ह्यभयमपि समन्वेति विद्याविकल्पात् ॥ ३९ चन्द्रे शाखेव शान्ते महसि तटगत लक्षणं कारणत्वं सत्यज्ञानादिवाक्यैरपमृदितगुणन्तद्विभातीति डिम्भाः। एकत्रार्थो विशेष्ये प्रतिपदनियतावय॑तत्तनिमित्तद्वारात्तिं पदानामिह विदुररुणायुक्तिवन्यायवृद्धाः॥
इति जन्माद्यधिकरणम् ॥ २॥
पटवा ॥
४०
....( अथ शास्त्रयोन्यधिकरणम् )--- वीतावीतप्रयोगक्रमनियतिमती कार्यता विश्वमेतत् सर्वज्ञेन प्रकृतं गमयति विफलस्त्वत्र शास्त्रैर्विचारः । इत्युन्नीतौ लघुत्वादनुमितिवशतः कर्मजैश्वर्ययुक्तो विश्वामित्रादिनीत्या स्फुरति विभुमिहासूत्रयच्छास्त्रवेद्यम् ॥ ४१ क्षित्याचं कार्यतायैः कटकमकुटवत् कर्तृपूर्व स कर्ता सिद्ध्येदत्राण्वदृष्टप्रभृतिजनकदृक् सर्वशक्तिश्च मैवम् ।
For Private And Personal Use Only

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465