Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ. १. यत्पीत्यर्थ वचस्तनिखिलमनृतमित्यर्भकपायवाक्यं सत्योक्त्यानन्ददृष्टेन च विहतिरिहाध्यक्षतश्शास्त्रतो वा । तेनानन्यार्थसिद्धोक्त्यनृतविषयताशङ्कनस्तम्भनेन त्रय्यन्तास्सत्यनित्याद्भुतपरमपरब्रह्मनिष्ठाः प्रमाणम् ॥ ४८ ब्रह्मैके निष्पपञ्चीकरणविधिपदं ध्यानविध्यर्थमन्ये निर्धर्माद्वैतवाक्योपचरितमितरे सिध्यतीति ब्रुवन्ति । तेषामेषां स्वपक्षस्ववचनविहतिव्याकुलानेकजल्पाः कल्पोऽयं बाह्यकल्पः कृतमतिपरिषत्पीठमर्दैरमर्दि ॥ कन्यार्था ह्यर्थवादस्तुतिमुखमुखतः स्थापितः प्रागिदानी स्वातन्त्र्येण प्रमाणी क्रियत इति ततः काण्डयोस्स्याद्विरोधः। न स्यात्सामान्यतो हि प्रथममभिदधे मानतास्थापनार्थ केषांचित्स्वार्थतोक्ता स्वत इह सुभगे बोधमात्रात्पुमर्थे ॥ ५० त्रेधा सर्वत्र वेदे नियतविभजने चोदनाद्यशभेदैचत्वारोऽप्यर्थवादा मुनिभिरभिहिता ब्राह्मणांशस्य शेषाः। अत्रातच्छेषतोक्तौ स्मृतिहतिरिति चेद्विद्धि दत्तोत्तरन्तत् सामान्योक्तिर्हि सेयं तत उपरि यथामन्त्रविध्यन्यतोक्तिः ॥ ५१ आम्नातैरौहिकाथै रविगुणसफलैशाकुनज्यौतिषाद्यैः पारत्रिक्या प्रवृत्त्याऽप्यतिनिपुणधियामागमाश्वाससिद्धौ । शब्दे तस्माच्च बोधे सति परविषये दोषबाधव्यपेते मानं तत्र स्वतोऽसौ न कथमितरथा नैगमाध्यापलापः॥ ५२ शास्त्रारम्भोपपत्त्यै चतुरधिकरणीपेटिकेयं प्रवृत्ता लक्ष्यस्योक्तं विशेषद्वयमिह घटते वक्ष्यमाणोपजीवि । सब्रह्माद्युक्तिवेद्यः पर इति हि वदेत्कारणत्वाधिकारे वक्ष्यत्यस्य द्विलिङ्गायधिकृतिषु पुनस्तादृशानन्दतादीन् ॥ ५३
For Private And Personal Use Only

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465