SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ. १. यत्पीत्यर्थ वचस्तनिखिलमनृतमित्यर्भकपायवाक्यं सत्योक्त्यानन्ददृष्टेन च विहतिरिहाध्यक्षतश्शास्त्रतो वा । तेनानन्यार्थसिद्धोक्त्यनृतविषयताशङ्कनस्तम्भनेन त्रय्यन्तास्सत्यनित्याद्भुतपरमपरब्रह्मनिष्ठाः प्रमाणम् ॥ ४८ ब्रह्मैके निष्पपञ्चीकरणविधिपदं ध्यानविध्यर्थमन्ये निर्धर्माद्वैतवाक्योपचरितमितरे सिध्यतीति ब्रुवन्ति । तेषामेषां स्वपक्षस्ववचनविहतिव्याकुलानेकजल्पाः कल्पोऽयं बाह्यकल्पः कृतमतिपरिषत्पीठमर्दैरमर्दि ॥ कन्यार्था ह्यर्थवादस्तुतिमुखमुखतः स्थापितः प्रागिदानी स्वातन्त्र्येण प्रमाणी क्रियत इति ततः काण्डयोस्स्याद्विरोधः। न स्यात्सामान्यतो हि प्रथममभिदधे मानतास्थापनार्थ केषांचित्स्वार्थतोक्ता स्वत इह सुभगे बोधमात्रात्पुमर्थे ॥ ५० त्रेधा सर्वत्र वेदे नियतविभजने चोदनाद्यशभेदैचत्वारोऽप्यर्थवादा मुनिभिरभिहिता ब्राह्मणांशस्य शेषाः। अत्रातच्छेषतोक्तौ स्मृतिहतिरिति चेद्विद्धि दत्तोत्तरन्तत् सामान्योक्तिर्हि सेयं तत उपरि यथामन्त्रविध्यन्यतोक्तिः ॥ ५१ आम्नातैरौहिकाथै रविगुणसफलैशाकुनज्यौतिषाद्यैः पारत्रिक्या प्रवृत्त्याऽप्यतिनिपुणधियामागमाश्वाससिद्धौ । शब्दे तस्माच्च बोधे सति परविषये दोषबाधव्यपेते मानं तत्र स्वतोऽसौ न कथमितरथा नैगमाध्यापलापः॥ ५२ शास्त्रारम्भोपपत्त्यै चतुरधिकरणीपेटिकेयं प्रवृत्ता लक्ष्यस्योक्तं विशेषद्वयमिह घटते वक्ष्यमाणोपजीवि । सब्रह्माद्युक्तिवेद्यः पर इति हि वदेत्कारणत्वाधिकारे वक्ष्यत्यस्य द्विलिङ्गायधिकृतिषु पुनस्तादृशानन्दतादीन् ॥ ५३ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy