Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.]
वैश्वानराधिकरणम्. (अथादृश्यत्वादिगुणकाधिकरणम् ॥ १६॥)... दृश्यत्वादेनिषेधो विकृतिमति भवत्यक्षरे सनिकर्षात् पञ्चम्युक्ताक्षरन्तत्तदवधिकपरः पञ्चविंशोऽस्तु मा भूत् । सर्वज्ञत्वादिदृष्टेः प्रथमसमुदितं त्वक्षरं ब्रह्म शुद्धं पश्चादुक्तन्तु जीवादिकमवधितया भेदतस्तत्परोक्तेः॥
___ इत्यदृश्यत्वादिगुणकाधिकरणम् ।। १६ ।।
१५
-.( अथ वैश्वानराधिकरणम् ॥ १७॥)..... स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूर्दादिकृप्त्या ध्येयो वैश्वानरात्मा स्थिरबहुविशयश्शब्दलिङ्गादिसाम्यात् । मैवं ब्रह्मेत्यधीतेर्भुवनतनुतया योगतस्त्वग्निशब्दो वैशिष्टयादा क्रियाङ्गं स्ववपुषि परधीार्हपत्यादिधीश्च ॥ १६ अन्यस्मिन्नन्यदृष्टया न भवति विदुषां कापि निश्श्रेयसाप्तिस्तस्माद्वैश्वानरोऽसौ न पर इति फलं त्वनसिद्ध्यादि मैवम् ।। ब्रह्मैव ह्यन्यदृष्टयन्वितघटितमिह ब्रह्मशब्दाद्यभावात् सर्वाघध्वंस उक्तः फलमपि परमं ब्रह्म च व्याप्तमन्नम् ॥ १७ त्रिष्वनोपासितृणां मितहृदयगुहाक्ष्यन्तरश्चिन्त्य उक्तो विश्वान्वयमितादेविपुलपरिमितश्चिन्तनीयस्त्रयेऽथ । षट्सु ब्रह्मात्मशब्दौ पुरुषपदमपि क्षेत्रतज्ज्ञप्रपञ्चव्यावृत्ते विश्वहेतौ प्रकरणनियमानामवृत्त्या नमन्ति ॥ १८ तज्जत्वादेहि सर्व जगदभिगदितं ब्रह्मभावेन पूर्व सर्वान्तर्यामिता च प्रभवितुरुदिता सर्वतदेहता च । तस्माद्विश्वैक्यबाधप्रभृतिबहुविधापार्थबम्भ्रम्याणक्षुद्रक्षीबोक्तिनालं निखिलमिह नयैस्सूत्रकारो निरास ॥ १९
For Private And Personal Use Only

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465