Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पा. ३. ]
www.kobatirth.org
भूमाधिकरणम्
१व्याप्ते तत्राक्षमतं यदि किमिह ततो जन्म चास्येच्छयोक्तनाडीचक्रस्य नाभिर्भवति च स परो हार्दरूपेण तिष्ठन् । निष्कम्पव्यापिनोऽन्तश्चरणमपि शुभर्विग्रहैरस्ति लोके सौबालाम्नातद्वा चरणमिदमपि स्यादधिष्ठानमात्त्रम् ॥ इति भ्वाद्यधिकरणम् ॥ १ ॥
१. व्याप्तेस्मिन्नक्ष पा ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
२१
६
• ( अथ भूमाधिकरणम् ॥ २ ॥ ) - आत्मज्ञानाभिलापादनुपरतशुचे नारदाय प्रयुक्तं माणे सानत्कुमारं विरमति वचनं हिंसनाईस्स जीवः । अल्पप्रत्यर्थिभूमा निरवधिकसुखोऽप्येष एवेति चेन्न प्राणाख्यात्सत्यशब्दोदितमधिकतयोपास्यमत्र ह्यपात्तम् ॥ नामाद्याशान्तवेद्ये प्रतिवचनवशात् प्रश्नतचाधिकोक्ते प्राणे विश्रान्तिदृष्ट्या भवतु तदवधिः प्रस्तुतात्मोपदेशः । मैवं जातो हि नामादिवदिह परमादात्मनः प्राण उक्तः स्वस्मादित्यत्र तत्स्यादिति न विघटनात् स्वारसिक्या विभक्तेः ॥ प्राणद्रष्टाऽतिवादी तदनुवदनतश्चोदितस्सत्यवादस्तस्मात्सर्वाहमर्थस्सकलजनयिता प्राण एवेति चेन्न । एष त्वित्यन्यतोक्तेरतिवदनकृतः प्राक्तनादस्य तद्वन् नत्वन्योऽस्त्यग्निहोत्री स्वमहिमनिलये ह्यत्र धर्मोपपत्तिः ॥ ८ नामादौ वाक्च तस्योपरि तदनु मनवाथ सङ्कल्पनामा चित्तं ध्यानं च तस्माद्बलमपि च ततस्स्याच्च विज्ञानपूर्वम् । अन्नं तोयं च तेजो गगनमपि ततो मन्मथस्स्यात्तथाशा प्राणस्सत्यः परात्मा सकलनियमिता गम्यते भूमवाक्ये || इति भूमाधिकरणम् ॥ २ ॥
५

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465