Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 455
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मधिकरणसारावल्याम् --(अथाक्षराधिकरणम् ॥ ३॥)..प्रख्याताकाशपूर्वस्वविकृतिवहनादक्षराख्यं प्रधान तस्याप्याकाशतोक्तौ धृतनिखिलजगत् क्षेत्रितत्त्वन्तु तत्स्यात् । मैवन्द्रष्टत्वपूर्वैरनितरनियतैश्शासनायत्तधृत्या किश्च द्रष्टन्तरस्य व्युदसनमिह तत्तुल्यतद्दष्टपोहः॥ १० इत्यक्षराधिकरणम् ।। ३ ॥ .(अर्थक्षतिकर्माधिकरणम् ॥ ४॥)-..लक्षीभूतोऽयमेकः खलु पुरुष इह ध्यायतेरीक्षतेश्व क्षेत्रज्ञस्सोऽयमण्डाधिप इतरपरात्स्वान्यजीवात्परोऽसौ । नो चेद्भौमादिभोगप्रकरणविहतिर्वोभवीतीत्ययुक्तं तस्मिञ् शान्तामृतत्वप्रभृतिपरगुणख्यात्यनूक्त्योरयोगात् ॥ ११ नन्वत्रोङ्कारमात्रात्रयफलगणनारूढभूम्यन्तरिक्षप्रत्यासत्त्या निवासस्सरसिजवसतेब्रह्मलोकोऽस्तु मैवम् । पापोन्मुक्तेन लभ्यो ह्ययमिह कथितस्सूर्यसम्पत्तिपूर्व सोढव्यो मद्ध्यलोकैर्व्यवधिरिति समस्तत्समाधानमार्गः॥ १२ इतीक्षतिकर्माधिकरणम् ।। ४ ।। ---- (अथ दहराधिकरणम् ॥ ५॥)...दहं हृत्पुण्डरीके गगनमभिहितन्तैत्तिरीयश्रुतौ यच्छन्दोगैस्तत्र गीतं यदपि च दहराकाश इत्येतदेकम् । भूताचं तत् प्रसिद्धेमहिमत इति न प्रत्यनीकैरनेकैः श्रौती च स्यात् प्रसिद्धिर्भगवति बलिनी लिङ्गवगैस्सनाथा ॥ बाह्याकाशश्च यावानयमपि हि तथेत्येतदक्लिष्टमाशे सत्यात्मप्राणशब्दा नभसि न कथमप्यन्वयं प्राप्नुवन्ति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465