Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 448
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] इन्द्रप्राणाधिकरणम् . इत्थं विश्वादिलिङ्ग सदिह न तु पराभीष्टलिङ्ग समस्तीत्युत्पश्यन् पूर्वपक्षी व्यवहरति तथा व्याहतिस्तन्न शङ्कया ॥७३ इति ज्योतिरधिकरणम् ॥ १० ॥ ---- (अथेन्द्रप्राणाधिकरणम् ॥ ११॥... विद्या प्रातर्दनी सा वदति हिततमोपास्तिकर्मेन्द्रमेव ख्यातप्राणेन्द्रचिह्नान्वितमपि तदसौ विश्वकर्तेति चेन्न । ब्रह्म त्रेधा ह्युपास्यं बहुविधचिदचित्कञ्चकं स्वात्मना च प्राणेन्द्रप्रक्रमोऽपि प्रबलतरमहावाक्यवैघटयभग्नः॥ ७४ यल्लिङ्गं कारणैकस्थितमिति कथितं ज्योतिषीन्द्रे च तत्त प्रख्यातान्यैकनिष्ठं प्रथममितमतस्तन्मुखोत्थित्ययोगः। अप्राप्ते तद्विमर्श प्रकृतशिथिलता नेति चेत्सत्यमेतत् विष्णूत्पत्त्यादिनीतिभ्रमत इह पुरोवादमुत्प्रेक्ष्य शङ्का ॥ ७५ ज्योतिःप्राणेन्द्रशब्दाः परतरविषयाः कारणव्याप्तधर्मादित्येतत्साध्वमीषां बहुविहतिमती ख्यातमाते तु वृत्तिः। तत्कौलेयानलात्मा कथित इह तथा ध्यानतस्तत्फलाप्त्यै मुख्यमाणादिलिङ्गं तदुपहितपरोपासनान्मोक्षणाय ॥ ७६ कार्य यत्कर्मवश्यं यदपि दृढमितं तन्निरूद्वैस्तु शब्दैः निर्दिष्टे ब्रह्मणि स्यात्कचिदगतिहता रूढिरैन्द्रीनयेन । तल्लिङ्गानन्यथासियधिगमनबलात्तद्विशिष्टे विवक्षा स्यादीशे ज्योतिरिन्द्रायभिलपनपदेऽहंत्वमादीरिते च ॥ ७७ स्वेच्छातस्सर्वहेतुश्शुभगुणविभवानन्तनिस्सीमहर्षश्शुद्धाकर्मोत्थनित्याकृतिरनुपधिकाकाशनादिखभावः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465