Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 439
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ... ---( अथ जिज्ञासाधिकरणम् )---- कार्ये व्युत्पत्तिराद्या नियतमिति गिरस्तत्परा एव सर्वा नान्या वेदेऽपि नीतिस्तत उपनिषदामूषरमायतैव । नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् ब्रह्म जिज्ञास्यमाह ॥ २७ अङ्गल्या निर्दिशन्तः किमपिकिमपि तद्वाचकांशैः प्रयुक्तैः बालान् व्युत्पादयन्ति क्रमभवमिलितज्ञापकत्वं विदन्तः। सङ्घातास्ते पदानां विदधति च धियं क्वापि सिद्धे विशिष्टे कर्तव्ये क्वापि चेति क्वचिदिह नियतिश्शब्दशक्तेन कल्प्या॥२८ संसारेऽनादिसिद्धे मुहुरनुभवतस्सञ्चितास्संस्क्रियास्स्युस्संस्कारोद्धोधकाश्च स्वयमुपनिपतन्त्यप्रकम्प्यात्प्रवाहात् । तत्तज्जातीयभेदग्रहणसमुचिता वृत्तयस्तन्निदानाः तद्वत्स्याच्छिक्षकादिव्यवहतिषु शिशोरैदमादिबोधः॥ २९ दक्षैराधोरणाद्यैरनुमितविविधस्वप्रयासोपयोगैः शिक्षाभेदा विचित्रा गजविहगमुखान् ग्राहयद्भिः प्रयुक्ताः । तस्मात्सार्थो मनुष्यप्रभृतिषु च तथाभूतशिक्षाविशेषः कल्पो भाष्योदितो यन्न यदि कथमसौ कल्पतेऽन्योऽपि मार्गः॥ कस्मैचित्सिद्धमर्थ कमपि कथयितुं चेष्टया चोद्यमानः तस्मै तं वक्ति तद्धीसमविषयतया शिक्षते तद्वचोऽन्यः । आदिष्टो बोधनार्थ यदिह वितनुते तत्तदर्थ हि युक्तं तद्वाक्यात्सिद्धवेदी प्रयततइति चेदस्त्वनादेशिकन्तत् ॥ ३ पुत्रस्तेऽभून्न सर्पोऽयमिति वचनतः प्रीत्यभीत्यादिलिङ्गः तद्योग्यार्थन्तदूचं विषयनियतिरासक्तिपूर्वैः क्वचित्स्यात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465