SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] शास्त्रावतारः. प्राधीतस्यैकरूपप्रयतननियतादेकरूपोपकाराविद्यास्थानैक्यसिद्धौ क्रमनियतियुताकायैकप्रबन्ध्यम् । अध्यायादिष्विवावान्तरविषयफलाद्यन्यताऽत्राप्यभेत्ती तत्तुल्यः कर्तृभेदः कलिबलकलुषैः कल्पितोऽर्थे विरोधः ॥ ११ तत्तद्वैशिष्टयभेदाद्यदगणि भिदुरा देवता पूर्वभागे संज्ञावैषम्यमात्रादपि कथमियताऽधीतयष्टव्यभङ्गः । उद्देश्याकारभेदोऽस्त्ययमिह हविषामुक्तिभिन्ने प्रयोगे दौर्बल्यं त्वक्षवेधान्मितिचरमतया द्रव्यतो देवतायाः॥ १२ जैमिन्युक्तं विरुद्धं यदिह बहुविधन्दर्शितं मूत्राकारैस्तस्मादत्रैकशास्त्र्यं हठकृतमिति न ब्रह्मसंवाददाढात् । तन्नस्तात्पर्यभेदैर्विहतिपरिहृतिः काण्डवत्काण्डयोस्स्यात् बाह्यक्षेपार्थगूढाशयवचनभवद्धान्तिशान्त्यादिसिद्धेः॥ १३ आक्षिप्य स्थापनीयाः कतिचिदिह नयाः पूर्वकाण्डप्रणीताः केचिद्युत्पादनीयाः कचिदषवदनं ख्याप्यमौत्सर्गिकस्य । इत्थं सर्वत्र चिन्ताक्रम इति समतां वीक्ष्य मध्यस्थदृष्टया शास्त्रैक्ये पौनरुत्यप्रभृतिपरिहतिस्सावधानैर्विभाव्या ॥ १४ वृत्तिग्रन्थे तु जैमिन्युपरचिततया षोडशाध्याय्युपात्ता सङ्कर्षः काशकृत्स्नप्रभव इति कथं तत्त्वरत्नाकरोक्तिः । अत्र ब्रूमस्सदुक्तौ न वयमिह मुधा बाधितुं किञ्चिदर्हा निर्वाहस्तूपचारात् कचिदिह घटते ह्येकतात्पर्ययोगः॥ १५ सौत्री सङ्ख्या १शुभाशीरधिकृतिगणना २चिन्मयी ब्रह्मकाण्डे तादत्र्येऽनन्तरत्वेऽप्यधिकरणभिदा नाल्पसारैः प्रकल्प्या। १. शुभाशी:-५४५. । २. चिन्मयी-१५६. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy