Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 434
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः अधिकरणसारावली. श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवों मे सन्निधत्तां सदा हृदि । स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनन्तत्प्रसत्त्यै सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदद्ध्याप्य युक्तान् । विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थमन्वर्थयामि ॥ श्रीमद्भयां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्यां सम्यग्दृष्टेन सर्वसहनिशितधिया वेङ्कटेशेन कुप्तः । सेव्योऽसौ शान्तचित्तैः श्रवणरसनया शान्तिलाभार्थिभिर्वा सिद्धश्शारीरकार्थे सहजबहुगुणः स्रग्धरादुग्धराशिः॥ त्रय्यन्तस्वान्तवादिन्यधिकरणगणे पौनरुत्योक्तबाधौ मन्दत्वासङ्गतत्वे विशयमफलतां मानवाधं च मन्तॄन् । दिङ्मोहक्षोभदीनान् दिनकरकिरणश्रेणिकेवोज्जिहाना हृद्या पद्यावलीयं हृदयमधिगता सावधानान्धिनोतु ॥ ३ गम्भीरे ब्रह्मभागे गणयितुमखिलं कः प्रवीणः प्रमेयं ? दिङ्मातं दर्शयन्नप्यहमिह निपुणैः प्राध्वमध्यक्षणीयः । मा भूनिश्शेषसिद्धिस्तदपि गुणविदः स्फीतनिस्सीमरने मध्येहारं निधेयम्महति जहति किम्मौक्तिकं लब्धमब्धौ ॥ ४ १. वेदिन्य इति पा. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465