Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०८
श्रीशारीरकमीमांसाभाग्ये [अ. १. मपरिच्छिन्नज्ञानानन्दमेकरूपमेवाभवदित्यर्थः। सर्वाणि चिदचिद्वस्तूनि सूक्ष्मदशापन्नानि स्थूलदशापन्नानि च परस्य ब्रह्मणो लीलोपकरणानिःसृष्टयादयश्च लीलेति भगवद्वैपायनपराशरादिभिरुक्तम्? "अव्यक्तादिविशेषान्तं परिणामधिसंयुतम्।क्रीडा हरेरिदं सर्व क्षरमित्युपधार्यताम्" २“क्रीडतो बालकस्येव चेष्टां तस्य निशामय"३"बालः क्रीडनकैरिव" इत्यादिभिः। वक्ष्यतिच ४'लोकवत्तु लीलाकैवल्यम्" इति। ५"अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्वान्यो मायया सनिरुद्धः"इति ब्रह्मणि जगद्रपतया विक्रियमाणेऽपि तत्प्रकारभूताचिदंशगतास्सर्वे विकारास्तत्प्रकारभूतक्षेत्रज्ञगताश्चापुरुषार्था इति विवेक्तुं प्रकृतिपुरुषयोब्रह्मशरीरभूतयोस्तदानी तथा निर्देशानर्हातिसूक्ष्मदशापत्त्या ब्रह्मणैकीभूतयोरपि भेदेन व्यपदेशः, ६'तदात्मानं स्वयमकुरुत" इत्यादिभिरैकार्थ्यात् । तथाच मानवं वचः "सोऽभिध्याय शरीरात्वात्सिसृक्षुर्विविधाः प्रजाः। अप एव ससजर्जादौ तासु वीर्यमपासृजत्" इति । अत एव ब्रह्मणो निर्दोषत्वनिर्विका रत्वश्रुतयश्चोपपन्नाः । अतो ब्रह्मैव जगतो निमित्तमुपादानश्च ॥२७॥
योनिश्चहि गीयते। १।४।२८॥ इतश्च जगतो निमित्तमुपादानश्च ब्रह्म,यस्माद्योनित्वेनाप्यभिधीयते ८ "कर्तारमीशं पुरुषं ब्रह्म योनिम्" इति। ९"यद्भतयोनि परिपश्यन्ति धीराः" इति चायोनिशब्दश्वोपादानवचन इति १० “यथोर्णनाभिस्सृजते गृह्णते च" इति वाक्यशेषादवगम्यते ॥ २८ ॥
इति श्रीशारीरकमीमांसाभाष्ये प्रकृत्यधिकरणम् ॥ ७॥
१.
२. वि. पु. १-२-१८॥ ३. वायुपु. उत्तरखं. ३६.९६ ॥ ४. शारी. २-१-३३ ॥
५. श्वे. ४-९. ६. तै. आ. ७॥ ७. मनु. १-८॥ ८.मु. ३.१.३॥ ९,१०. मु. १-१-६,७॥
For Private And Personal Use Only

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465