Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 430
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] वेदान्तसारे वेदान्तसारे-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ जगदुपादानकारणमपि परं ब्रह्म,न निमित्तमात्रम्,१"स्तब्धोऽस्युत तमादेशमप्राश्यः येनाश्रुतं श्रुतं भवति" इति येन आदेष्ट्रा निमित्तभूतेन विज्ञातेन चेतनाचेतनात्मकं कृत्वं जगद्विज्ञातं भवतीति आदेष्टविक्षानेन सर्वविज्ञानप्रतिज्ञातदुपपादमरूपमृत्कार्यदृष्टान्तानुपरोधात्मादिश्यते अनेनेति आदेशः-इत्यादेशशब्देमादेष्टामिधीयते । आदेशः प्रशासनम् , २"एतस्य वा अक्षरस्य प्रशासने गार्गि" इत्यादिश्रुतेः ॥२३॥ ___ अभिध्योपदेशाच्च ॥ ३"तदैक्षत बहु स्यां प्रजायय" इति निमित्तभूतस्पेक्षितुः विचित्रचिदचिद्रूपेण जगदाकारेणाऽत्मनो बहुभवनसङ्कल्पोपदेशाच उपादानमपीति विज्ञायते ॥२४॥ साक्षाच्चोभयानानात् ॥ ४"ब्रह्म वनं ब्रह्म स वृक्ष आसीत्...ब्रह्माभ्यतिष्ठद्भुवनानि धारयन्" इति उपादानं निमित्तञ्च ब्रह्मैवेति स्वशब्देन उभयामानाथ ॥२५॥ • आत्मकृतेः ॥ ५"सोऽकामयत" इति निमित्तभूतस्य स्वस्यैव जगदाकारेण कृतेः ६"तदान्मानं स्वयमकुरुत" इत्युपदिश्यमानायाः परमपुरुषो जग. निमित्तमुपादानश्चेति विज्ञायते ॥ २६ ॥ परस्य ब्रह्मणो निरवद्यत्वसत्यसङ्कल्पत्वादेः तद्विपरीतानन्तापुरुषार्थाश्रयजगदाकारेण आत्मकृतेश्चाविरोधः कथमित्याशङ्कयाह परिणामात् ॥ अत्रोपदिश्यमानात् परिणामात् तदविरोध एव । अविभक्तनामरूपातिसूक्ष्मचिदचिद्वस्तुशरीरकः कारणावस्थः परमपुरुषस्वयमेव ५"सोऽकामयत बहु स्यां प्रजाय" इति विभक्तनामरूपचिदचिद्वस्तुशरीरको भवेयमिति सङ्कल्प्य५''इदं सर्वमसृजत यदिदं किञ्च"इति स्वशरीरभूतमतिसूस्मचिदचिद्वस्तु स्वस्माद्विभज्य ५"तत्सृष्ट्वा तदेवानुप्राविशत्' इति स्वस्माद्विभक्त चिदचिवस्तुनि स्वयमेवात्मतयाऽनुप्रविश्य५"सच त्यचाभवत्। निरुक्तञ्चानिरुका। निलयनञ्चानिलयनश्च । विज्ञानञ्चाविज्ञानश्च । सत्यञ्चानृतश्च सत्यमभवत्" इति हि स्वस्य बहुभवनरूपपरिणाम उपदिश्यते; अतो न कश्चिद्विरोधः। १. छा, ६-१-३॥ ४. अष्ट. २-प्र. ८-अनु. ७-८ ॥ २. स. ५-८-९ ॥ ५. ते. आ. ६-२॥ ३. छा. ६२-३॥ ६. ते. आ. ७-१॥ 52 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465