Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 428
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] प्रकृत्यधिकरणम्. ४०७ ञ्च तत्सृष्ट्वा तदेवानुपाविशत् तदनु प्रविश्य सच त्यच्चाभवत् निरुक्तं चानिरुक्तंच निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्" इति। अत्र तपश्शब्देन प्राचीनजगदाकारपालोचनरूपं ज्ञानमभिधीयते १“यस्य ज्ञानमयं तपः" इत्यादिश्रुतेः प्राक्सृष्टं जगत्संस्थानमालोच्येदानीमपि तत्संस्थानं जगदसृजदित्यर्थः तथैव हि ब्रह्म सर्वेषु कल्पेध्वेकरूपमेव जगत्सृजति २ "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्।दिवं च पृथिवीं चान्तरिक्षमथो सुवः"३"यथर्तुष्टतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानितान्येव तथा भावा युगादिषु" इति श्रुतिस्मृतिभ्यः। तदयमथ:-स्वयमपरिच्छिन्नज्ञानानन्दस्वभावोऽत्यन्तसूक्ष्मतयाऽसत्कल्पस्खलीलोपकरणचिदचिद्वस्तुशरीरतया तन्मयः परमात्मा विचित्रानन्तकीडनकोपादित्सया स्वशरीरभूतप्रकृतिपुरुषसमष्टिपरम्परया महाभूतपर्यन्तमात्मानं तत्तच्छरीरकं परिणमय्य तन्मयः पुनस्सत्त्यच्छब्दवाच्यविचिलचिदचिन्मिश्रदेवादिस्थावरान्तजगद्रपोऽभवत्-इति। ४"तदेवानुपाविशतदनुपविश्य"इति कारणावस्थायामात्मतयाऽवस्थितः परमात्मैव कार्यरूपेण विक्रियमाणद्रव्यस्याप्यात्मतयाऽवस्थाय तत्तदभवदित्युच्यते । एवं परमात्मचिदचित्सवातरूपजगदाकारपरिणामे परमात्मशरीरभूतचिदंशगतास्सर्व एवापुरुषार्थाः; तथाभूताचिदंशगताश्च सर्वे विकाराः; परमात्मनि कार्यत्वम् । तदवस्थयोस्तयोनियन्तृत्वेनात्मत्वम् । परमात्मा तु तयोस्स्वशरीरभूतयोनियन्तृतयात्मभूतस्तद्गतापुरुषार्थैर्विकारैश्च न स्पृश्यते अपरिच्छिन्नज्ञानानन्दमयस्सर्वदैकरूप एव जगत्परिवर्तनलीलयाऽवतिष्ठते । तदेतदाह ४"सत्यं चानृतं च सत्यमभवत्" इति । विचित्रचिदचिद्रपेण विक्रियमाणमपि ब्रह्म सत्यमेवाभवत्-निरस्तनिखिलदोषगन्ध १. मु. १.१-९॥ २. ते. नारा. ६-२४॥ । । ३. वि. पु-१-५-६५ ॥ ४. तै. आ. ६.३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465