________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] प्रकृत्यधिकरणम्.
४०७ ञ्च तत्सृष्ट्वा तदेवानुपाविशत् तदनु प्रविश्य सच त्यच्चाभवत् निरुक्तं चानिरुक्तंच निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्" इति। अत्र तपश्शब्देन प्राचीनजगदाकारपालोचनरूपं ज्ञानमभिधीयते १“यस्य ज्ञानमयं तपः" इत्यादिश्रुतेः प्राक्सृष्टं जगत्संस्थानमालोच्येदानीमपि तत्संस्थानं जगदसृजदित्यर्थः तथैव हि ब्रह्म सर्वेषु कल्पेध्वेकरूपमेव जगत्सृजति २ "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्।दिवं च पृथिवीं चान्तरिक्षमथो सुवः"३"यथर्तुष्टतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानितान्येव तथा भावा युगादिषु" इति श्रुतिस्मृतिभ्यः। तदयमथ:-स्वयमपरिच्छिन्नज्ञानानन्दस्वभावोऽत्यन्तसूक्ष्मतयाऽसत्कल्पस्खलीलोपकरणचिदचिद्वस्तुशरीरतया तन्मयः परमात्मा विचित्रानन्तकीडनकोपादित्सया स्वशरीरभूतप्रकृतिपुरुषसमष्टिपरम्परया महाभूतपर्यन्तमात्मानं तत्तच्छरीरकं परिणमय्य तन्मयः पुनस्सत्त्यच्छब्दवाच्यविचिलचिदचिन्मिश्रदेवादिस्थावरान्तजगद्रपोऽभवत्-इति। ४"तदेवानुपाविशतदनुपविश्य"इति कारणावस्थायामात्मतयाऽवस्थितः परमात्मैव कार्यरूपेण विक्रियमाणद्रव्यस्याप्यात्मतयाऽवस्थाय तत्तदभवदित्युच्यते । एवं परमात्मचिदचित्सवातरूपजगदाकारपरिणामे परमात्मशरीरभूतचिदंशगतास्सर्व एवापुरुषार्थाः; तथाभूताचिदंशगताश्च सर्वे विकाराः; परमात्मनि कार्यत्वम् । तदवस्थयोस्तयोनियन्तृत्वेनात्मत्वम् । परमात्मा तु तयोस्स्वशरीरभूतयोनियन्तृतयात्मभूतस्तद्गतापुरुषार्थैर्विकारैश्च न स्पृश्यते अपरिच्छिन्नज्ञानानन्दमयस्सर्वदैकरूप एव जगत्परिवर्तनलीलयाऽवतिष्ठते । तदेतदाह ४"सत्यं चानृतं च सत्यमभवत्" इति । विचित्रचिदचिद्रपेण विक्रियमाणमपि ब्रह्म सत्यमेवाभवत्-निरस्तनिखिलदोषगन्ध
१. मु. १.१-९॥ २. ते. नारा. ६-२४॥
। ।
३. वि. पु-१-५-६५ ॥ ४. तै. आ. ६.३॥
For Private And Personal Use Only