________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०६
श्रीशारीरकमीमांसाभाष्ये
[म. १.
नां शरीरत्वं ब्रह्मण आत्मत्वं च श्रूयते । “यस्य बुद्धिश्शरीरम्” १ “यस्याहङ्कारश्शरीरम् " ? “यस्य चित्तं शरीरं ", " यस्याव्यक्तं शरीरम्", "यस्याक्षरं शरीरम् यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः " इति । अत्र मृत्युशब्देन परमसूक्ष्ममचिद्वस्तु तमश्शब्दवाच्यमभिधीयते, २" अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते" इति तस्यामेवोपनिषदि क्रममत्यभिज्ञानात् । सर्वेषामात्मनां ज्ञानावरणानर्थमूलत्वेन तदेव हि तमो मृत्युशब्दव्यपदेश्यम् | सुबालोपनिषद्येव ब्रह्मशरीरतया तदात्मकानां तत्त्वानां ब्रह्मण्येव प्रलय आम्नायते २" पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते भूतादिर्महति लीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकी भवति" इति । अविभागापत्तिदशायामपि चिदचिद्रस्त्वतिसूक्ष्मं सकर्म संस्कारं तिष्ठतीत्युत्तरत्र वक्ष्यते - ३ "न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यतेच " इति । एवं स्वस्माद्विभागव्यपदेशानईतया परमात्मनैकीभूतात्यन्तसुक्ष्मचिदचिद्वस्तुशरीरादेकस्मादेवाद्वितीया
१. सुबा ७ ॥
२. सुबा. २ ॥
३. शारी. २- १०३५ ॥ ४.तै, आ. १-१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
न्निरतिशयानन्दात्सर्वज्ञात्सत्यसङ्कल्पाब्रह्मणो नामरूपविभागार्हस्थूलचिदचिद्वस्तुशरीरतया बहुभवनसङ्कल्पपूर्वको जगदाकारेण परिणामश्वयते । ४" सत्यं ज्ञानमनन्तं ब्रह्म " ५ " तस्माद्वा एतस्माद्विज्ञानमयात् । अन्यो1 ऽन्तर आत्माऽऽनन्दमयः” ६" एष ह्येवानन्दयाति "७" सोऽकामयत बहुस्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं कि
५. तै. आ. ५-२ ॥
६. तै. आ. ७-७॥
७. तै. आ. ६-२ ॥
For Private And Personal Use Only