SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१० बेदान्तदीपे [म.. अविभागावस्थायामपि जीवस्तत्कर्म च सूक्ष्मरूपेण तिष्ठतीति वक्ष्यति "न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति ॥ २७ ॥ योनिश्च हि गीयते ॥ २"यद्भूतयोनिम्" इत्यादिषु योनिश्च गीयते ; अतश्वोपादानमपि ॥ २८ ॥ ___ इति वेदान्तसारे प्रकृत्यधिकरणम् ॥ ७ ॥ वेदान्तदीपे-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्।।परं ब्रह्म किं जगतो निमित्तकारणमात्रम् ,उतोपादानकारणमपीति संशयः। निमित्तकारणमात्रमिति पूर्वः पक्षः, मृत्कुलालादौ निमित्तोपादानयोर्भेददर्शनात् ; ३"अस्मान्मायी स्जते विश्वमेतत्" इत्यादिभिर्भेदप्रतिपादनात्, ब्रह्मणोऽषिकारत्वश्रुतिविरोधाच । राद्धान्तस्तु-'येनाश्रुतं श्रुतम्" इति ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिक्षानान्यथानुपपत्त्या ५“यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयम्" इति मृत्तकायदृष्टान्तेन तदुपपादनाच जगदुपादानकारणमपि ब्रह्मैवेति विज्ञायते । प्रमाणान्तरावसितसकलवस्तुविलक्षणस्य शास्त्रैकसमधिगम्यस्य परस्य ब्रह्मणस्सवक्षस्य सर्वशक्तेः कार्यकारणोभयावस्थायामपि स्वशरीरभूतचिदचित्प्रकारतयाऽवस्थितस्यैकस्यैव निमित्तत्वमुपादानत्वं चाविरुद्धम् । शरीरभूताचिद्वस्तुगतो विकार इति कार्यावस्थावस्थितस्यापि शरीरिणः परमात्मनोऽविकारित्वं सिद्धमेव । चिदचिद्वस्तुशरीरस्य ब्रह्मण एवोपादानत्वेऽपि ब्रह्मण्यपुरुषार्थवि. कारास्पर्शप्रदर्शनाय हि ३"अस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया सनिरुद्धः" इति व्यपदेशः । प्रतिज्ञादृष्टान्तानुपरोधात् उपादानं च ब्रह्मैवेति सूत्रार्थः ॥२३॥ अभिध्योपदेशाच्च ॥ ६"सोऽकामयत बहु स्याम्""तदक्षत बहु स्यां प्रजायेय" इति स्रष्टब्रह्मणस्वस्यैव जगदाकारेण बहुभवनचिन्तनोपदेशाञ्च जगदुपादानं निमित्तं च ब्रह्मैवेति निश्चीयते ॥ २४ ॥ साक्षाच्चोभयानानात् ॥ ८"किं स्विद्वनं क उ स वृक्ष आसीत्"इस्यादिना जगदुपादाननिमित्तादौ पृष्टेः"ब्रह्म वनं ब्रह्म स वृक्ष आसीत्"८"ब्रह्माध्य१. शारी. २-१-३५॥ । ५. का ६,१-४ ॥ २. मु. १-१-६॥ ६.ते. आ. ६.२ ॥ ३. श्वे. ४-९ ॥ ७.छा. ६-२-३ ॥ ४. डा. ६-१-३॥ ८. अष्ट. २-प्र. ८.अनु. ७-८॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy