Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०० श्रीशारीरकमीमांसाभाष्ये
[अ. १. प्रधानोपादानत्वे ब्रह्मणो जगत्कारणत्वश्रुत्यन्यथानुपपत्त्यैव प्रधानखरूपं तस्येश्वराधिष्ठितस्य जगदुपादानत्वं च सिद्ध्यति । एवमेवहि लोके निमित्तोपादानयोरत्यन्तभेदो दृश्यते । मृत्सुवर्णादेरचेतनस्य घटकटकाद्युपादानत्वं चेतनस्य कुलालसुवर्णकारादेनिमित्तत्वं च नियतमुपलभ्यते । कार्यनिष्पत्तिश्च नियमेनानेककारकसव्यपेक्षा दृष्टा । एवं निमित्तोपादानयोर्भेदनियम कार्यनिष्पत्तेरनेककारकसव्यपेक्षत्वनियमं चातिक्रम्यैकमेव ब्रह्मोपादानं निमित्तं च प्रतिपादयितुं न प्रभवन्ति वेदान्तवाक्यानि । अतो ब्रह्म निमित्तकारणमेव, नोपादानम् । उपादानंतु तदधिष्ठितं प्रधानमेव-इति ॥
--(सिद्धान्तः).-..एवं प्राप्तेऽभिधीयते-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्-इति। प्रकृतिश्च-उपादानंच । न निमित्तकारणमात्रं ब्रह्म, उपादानकारणं च ब्रझैवेत्यर्थः । कुतः ? प्रतिज्ञादृष्टान्तानुपरोधात् । एवमेवहि प्रतिज्ञादृष्टान्तौ नोपरुध्येते। प्रतिज्ञा तावत् १"स्तब्धोऽस्युत तमादेशमपाक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्" इत्येकविज्ञानेन सर्वविज्ञानविषया । दृष्टान्तश्च २“यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात्" ३“यथा सोम्यैकेन लोहमणिना" ४'यथा सोम्यैकेन नखनिकुन्तनेन" इति कारणविज्ञानात्कार्यविज्ञानविषयः। यदि निमित्तकारणमेव जगतो ब्रह्म, तदा तद्विज्ञानान्न समस्तं जगद्विज्ञातं स्यात् । नहि कुलालादिविज्ञानेन घटादिर्विज्ञायते । अतः प्रतिज्ञादृष्टान्तयोर्बाध एव । ब्रह्मण एवोपादानत्वे उपादानभूतमृत्पिण्डलोहमणिनखनिकृन्तनविज्ञानेन घटमणिककटकमकुटवासीपरश्वथादितत्कायविज्ञानवनिखिलजगदुपादानभूते ब्रह्मणि विज्ञाते तत्कार्य निखिलं जगद्विज्ञातं स्यात्। कारण१. छा, ६-१-३ ।।
३. छा. ६-१.५ ॥ २. छा. ६.१.४॥
४. छा. ६-१-६॥
For Private And Personal Use Only

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465