Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] प्रकृत्यधिकरणम् .
३९९ स्मन्यन्तरात्मतया परमात्मनः अवस्थितेः जीवात्मशब्दस्य परमात्मनि पर्यवसानाजीवात्मशब्देन परमात्मनोऽभिधानमिति काशकृत्स्न आचार्यों मन्यते । इदमेव सूत्रकाराभिमतमित्यवगम्यते, त्रयाणामन्योन्यविरोधात् , इतः परमवचनाच ॥ २२॥ इति वेदान्तदीपे वाक्यान्वयाधिकरणम् ॥ ६ ॥
--- --(श्रीशाररिकमीमांसाभाष्ये प्रकृत्यधिकरणम् ॥ ७ ॥)---
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । १॥४॥२३॥
एवं निरीश्वरसाङ्खये निरस्ते सति सेश्वरसाङ्ख्यः प्रत्यवतिष्ठते-यघपीक्षणादिगुणयोगात्सर्वज्ञमीश्वरं जगत्कारणत्वेन वेदान्ताः प्रदिपादयन्ति; तथापि वेदान्तैरेव जगदुपादानतया प्रधानमेव प्रतिपाद्यत इति प्रतीयते । नहि वेदान्तास्सर्वज्ञस्यापरिणामिनोऽधिष्ठातुरीश्वरस्याधिष्ठेयेनाचेतनेन परिणामिना प्रधानेन विना जगतः कारणत्वमवगमयन्ति । तथाह्यपरिणामिनमेनं प्रकृतिं चैतदधिष्ठितां परिणामिनीमधीयते-१"निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम्"२"स वा एष महानज आत्माऽजरोऽमरः" ३"विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्" ३"ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थ च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवा सा जनित्री भूतभाविनी" इति । तथा प्रकृतिमुपादानभूतामधिष्ठायैवेश्वरो विश्वं जगत्सृजतीति श्रूयते ४"अस्मान्मायी सृजते विश्वमेतत्" ४“मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्" इति । स्मृतिरपि ५"मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्" इति । एवमश्रुतेऽपि १. श्वे. ६-१९॥
४. श्वे. ४-५, १०॥ २. १. ६-४-२५॥
५. गी. ९-१०॥ ३. मन्त्रिकोपनिषदि ।
For Private And Personal Use Only

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465