SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] प्रकृत्यधिकरणम् . ३९९ स्मन्यन्तरात्मतया परमात्मनः अवस्थितेः जीवात्मशब्दस्य परमात्मनि पर्यवसानाजीवात्मशब्देन परमात्मनोऽभिधानमिति काशकृत्स्न आचार्यों मन्यते । इदमेव सूत्रकाराभिमतमित्यवगम्यते, त्रयाणामन्योन्यविरोधात् , इतः परमवचनाच ॥ २२॥ इति वेदान्तदीपे वाक्यान्वयाधिकरणम् ॥ ६ ॥ --- --(श्रीशाररिकमीमांसाभाष्ये प्रकृत्यधिकरणम् ॥ ७ ॥)--- प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । १॥४॥२३॥ एवं निरीश्वरसाङ्खये निरस्ते सति सेश्वरसाङ्ख्यः प्रत्यवतिष्ठते-यघपीक्षणादिगुणयोगात्सर्वज्ञमीश्वरं जगत्कारणत्वेन वेदान्ताः प्रदिपादयन्ति; तथापि वेदान्तैरेव जगदुपादानतया प्रधानमेव प्रतिपाद्यत इति प्रतीयते । नहि वेदान्तास्सर्वज्ञस्यापरिणामिनोऽधिष्ठातुरीश्वरस्याधिष्ठेयेनाचेतनेन परिणामिना प्रधानेन विना जगतः कारणत्वमवगमयन्ति । तथाह्यपरिणामिनमेनं प्रकृतिं चैतदधिष्ठितां परिणामिनीमधीयते-१"निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम्"२"स वा एष महानज आत्माऽजरोऽमरः" ३"विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्" ३"ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थ च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवा सा जनित्री भूतभाविनी" इति । तथा प्रकृतिमुपादानभूतामधिष्ठायैवेश्वरो विश्वं जगत्सृजतीति श्रूयते ४"अस्मान्मायी सृजते विश्वमेतत्" ४“मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्" इति । स्मृतिरपि ५"मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्" इति । एवमश्रुतेऽपि १. श्वे. ६-१९॥ ४. श्वे. ४-५, १०॥ २. १. ६-४-२५॥ ५. गी. ९-१०॥ ३. मन्त्रिकोपनिषदि । For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy