SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०० श्रीशारीरकमीमांसाभाष्ये [अ. १. प्रधानोपादानत्वे ब्रह्मणो जगत्कारणत्वश्रुत्यन्यथानुपपत्त्यैव प्रधानखरूपं तस्येश्वराधिष्ठितस्य जगदुपादानत्वं च सिद्ध्यति । एवमेवहि लोके निमित्तोपादानयोरत्यन्तभेदो दृश्यते । मृत्सुवर्णादेरचेतनस्य घटकटकाद्युपादानत्वं चेतनस्य कुलालसुवर्णकारादेनिमित्तत्वं च नियतमुपलभ्यते । कार्यनिष्पत्तिश्च नियमेनानेककारकसव्यपेक्षा दृष्टा । एवं निमित्तोपादानयोर्भेदनियम कार्यनिष्पत्तेरनेककारकसव्यपेक्षत्वनियमं चातिक्रम्यैकमेव ब्रह्मोपादानं निमित्तं च प्रतिपादयितुं न प्रभवन्ति वेदान्तवाक्यानि । अतो ब्रह्म निमित्तकारणमेव, नोपादानम् । उपादानंतु तदधिष्ठितं प्रधानमेव-इति ॥ --(सिद्धान्तः).-..एवं प्राप्तेऽभिधीयते-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्-इति। प्रकृतिश्च-उपादानंच । न निमित्तकारणमात्रं ब्रह्म, उपादानकारणं च ब्रझैवेत्यर्थः । कुतः ? प्रतिज्ञादृष्टान्तानुपरोधात् । एवमेवहि प्रतिज्ञादृष्टान्तौ नोपरुध्येते। प्रतिज्ञा तावत् १"स्तब्धोऽस्युत तमादेशमपाक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्" इत्येकविज्ञानेन सर्वविज्ञानविषया । दृष्टान्तश्च २“यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात्" ३“यथा सोम्यैकेन लोहमणिना" ४'यथा सोम्यैकेन नखनिकुन्तनेन" इति कारणविज्ञानात्कार्यविज्ञानविषयः। यदि निमित्तकारणमेव जगतो ब्रह्म, तदा तद्विज्ञानान्न समस्तं जगद्विज्ञातं स्यात् । नहि कुलालादिविज्ञानेन घटादिर्विज्ञायते । अतः प्रतिज्ञादृष्टान्तयोर्बाध एव । ब्रह्मण एवोपादानत्वे उपादानभूतमृत्पिण्डलोहमणिनखनिकृन्तनविज्ञानेन घटमणिककटकमकुटवासीपरश्वथादितत्कायविज्ञानवनिखिलजगदुपादानभूते ब्रह्मणि विज्ञाते तत्कार्य निखिलं जगद्विज्ञातं स्यात्। कारण१. छा, ६-१-३ ।। ३. छा. ६-१.५ ॥ २. छा. ६.१.४॥ ४. छा. ६-१-६॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy