SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९८ वेदान्तदीपे वेदान्तदीपे-वाक्यान्वयात् ॥ बृहदारण्यके मैत्रेयीब्राह्मणे १"नषा भरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय" इत्यारभ्य,"आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यादौ द्रष्टव्यतया निर्दिष्टः पुरुषः तन्त्रसिद्धः, उत परमात्मेति संशयः। तन्त्रसिद्धः पञ्चविंशक एवेति पूर्वः पक्षः। पतिजायापुत्रवित्तमित्रपश्वादिप्रियसम्बन्ध्यात्मा न परमात्मा भवितुमर्हति। स एवहि १"आत्मा वा अरे द्रष्टव्यः" इति प्रतिपाद्यते। राद्धान्तस्तु-न पत्यादीनां कामाय प्रत्यादयः प्रिया भवन्ति १"आत्मनस्तु कामाय" इत्युसवा, १"आत्मा वा अरे द्रष्टव्यः" इति निर्दिष्ट आत्मा, जीवातिरिक्तस्सत्यसङ्कल्पस्सर्वशः परमात्मैव; यत्सङ्कल्पायत्तं पत्यादीनां स्वसम्बन्धिनः प्रति प्रियत्वम्, सहि सत्यसङ्कल्पः परमात्मा। आत्मशानेन सर्वज्ञानादयोऽपि वक्ष्यमाणाः परमात्मन्येव सम्भवन्ति ॥ सूत्रार्थस्तु-वाक्यस्य कृत्स्नस्य परमात्मन्येवान्वयादृष्टव्यतया निर्दिष्ट आत्मा परमात्मैव २"अमृतत्वस्य तु नाशाऽस्ति वित्तेन" १"आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्" ३"इदं सर्व यदयमात्मा" ४"तस्यह वा एतस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदः" ५"येनेदं सर्व विजानाति तं केन विजानीयात्” इति हि कृत्स्नस्य वाक्यस्य परमात्मन्यन्वयो दृश्यते ॥१९॥ ६"एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति" इति जीवलिङ्गस्य मतान्तरेण निर्वाहमाह प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः॥ एकविज्ञानेन सर्वविज्ञानप्रतिक्षासिद्धये जीवस्य परमात्मकार्यतया परस्मादात्मनोऽनन्यो जीव इति जीवशब्देन परमात्मनोऽभिधानमित्याश्मरथ्यमतम् ॥ २०॥ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥ ७"परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते” इति शरीरात् उत्क्रमिष्यतः अस्य जीवस्य परमात्मभावाजीवशब्देन परमात्मनोऽभिधानमिति औडुलोमिराचार्यो मेने ॥ २१॥ अवस्थितेरिति काशकृत्स्नः।। "य आत्मनि तिष्ठन्" इत्यादिभिर्जीवा. १. वृ. ६-५-६॥ २. बु ४-४-२ ॥ ६. वृ. ४-४-१२ ।। ७. छा. ८.३-४॥ ३. वृ. ६-५-७॥ ४. ३. ४-४-१०॥। ८.१. ५-७-२२ ।। मा. पा ।। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy