________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] वाक्यान्धयाधिकरणम्.
३९७ भिधाय १"विज्ञातारमरे केन विजानीयादित्युक्तानुशासनाऽसि मैत्रेय्येतावदरे खल्वमृतत्वम्" इति समस्तवस्तुविसजातीयं निखिलजगदेककारणभूतं सर्वस्य विज्ञातारं पुरुषोत्तममुक्तप्रकारादुपासनाहते केन विजानीयादितीदमेवोपासनममृतत्वोपायः; ब्रह्मप्राप्तिरेव चामृतत्वमभिधीयतेइत्युक्तवान्। अतः परं ब्रह्मैवास्मिन्वाक्ये प्रतिपाद्यत इति परमेव ब्रह्म जगत्कारणम्, न पुरुषस्तदधिष्ठिता च प्रकृतिरिति स्थितत ॥
इति श्रीशारीरकमीमांसाभाष्ये वाक्यान्वयाधिकरणम् ॥ ६ ।।
वेदान्तसारे-वाक्यान्वयात् ।। २"न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय' इत्यारभ्य, २ ''आत्मा वा आरे द्रष्टव्यः" इस्यादिनोपदिष्टः परमात्मा३'अमृतत्वस्य तु नाशाऽस्ति वित्तेन"इत्यारभ्य,२ "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्" इत्यादि, ४"येनेदं सर्व विजानाति" इत्यन्तस्य कृत्स्नस्य वाक्यस्य परमात्मन्येवान्वयात् ॥ १९॥
___ अस्मिन्प्रकरणे प्रकरणान्तरे च जीववाचिशब्देन परमात्मनोऽभिधाने, तत्सामानाधिकरण्ये च कारणम्मतान्तरेणाह
प्रतिज्ञासिद्धलिङ्गमाश्मरथ्यः ॥ २"आत्मनि खल्वरे दृष्टे” इत्यादिना परमात्मज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये जीवस्य तत्कार्यतया तस्मादनतिरिक्तत्वं ज्ञापयितुं जीवशब्देन परमात्माभिधानमिति आश्मरथ्यः ॥ २०॥
उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥ उत्क्रमिष्यतः मुक्तस्य परमात्मस्वरूपभावादात्मशब्देन परमात्माभिधानमिति औडुलोमिः ॥२१॥
अवस्थितेरिति काशकृत्स्नः ॥ ५“य आत्मनि तिष्ठनात्मनोऽन्तरः" इत्यादिना जीवात्मनि परमात्मन आत्मतया अवस्थितेरिति काशकृत्स्न आचार्यों मन्यते । इदमेव मतं सूत्रकारस्स्वीकृतवानिति, मतद्वयमुपन्यस्य तद्विरोध्येतद. भिधानात् , अन्यस्यानभिधानाञ्च निश्चीयते ॥ २२॥
इति वेदान्तसारे वाक्यान्वयाधिकरणम् ॥ ६ ॥
१. पृ. ६-५-१५ ॥ २. १. ६-५-६ ॥ ३.३.४.४.२॥
४.बु. ४-४-१४॥ ५. वृ. ५-७-२२ ॥ मा. पा॥
For Private And Personal Use Only