________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६ भीशारीरकमीमांसामाग्ये
[... अमृतत्वोपाये मैत्रेय्या पृष्टे याज्ञवल्क्यः -१"आत्मा वा अरे द्रष्टव्यः" इत्यादिना परमात्मोपासनममृतत्वोपायमुक्त्वा १"आत्मनि खल्वरे दृष्टे" इत्यादिनोपास्यलक्षणम् , दुन्दुभ्यादिदृष्टान्तश्चोपासनोपकरणभूतमन:प्रभृतिकरणनियमनं च सामान्येनाभिधाय २“स यथाऽऽधाग्नेः" इत्यादिना ३"स यथा सर्वासामपां समुद्र एकायनम्" इत्यादिना चोपास्यभूतस्य परस्य ब्रह्मणो निखिलजगदेककारणत्वम्, सकलविषयप्रवृत्तिमूलकरणग्रामनियमनं च विस्तीर्णमुपदिश्य ४" स यथा सैन्धवघनः" इत्यादिनाऽमृतत्वोपायप्रवृत्तिप्रोत्साहनाय जीवात्मस्वरूपेणावस्थितस्य परमात्मनोऽपरिच्छिन्नज्ञानेकाकारतामुपपाद्य तस्यैवापरिच्छिन्नज्ञानैका - कारस्य संसारदशायां भूतपरिणामानुत्तिं ५" विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति" इत्यभिधाय ५“न प्रेत्य संज्ञाऽस्ति" इति मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानसङ्कोचाभावेन भूतसङ्घातेनैकीकृत्याऽत्मनि देवादिरूपज्ञानाभावमुक्त्वा पुनरपि ६“यत्र हि द्वैतमिव भवति" इत्यादिना अब्रह्मात्मकत्वेन नानाभूतवस्तुदर्शनमज्ञानकृतमिति निरस्तनिखिलाज्ञानस्य ब्रह्मात्मकं कृत्स्नं जगदनुभवतो ब्रह्मव्यतिरिक्तवस्त्वन्तराभावेन भेददर्शनं निरस्य ६"येनेदं सर्व विजानाति तं केन विजानीयात्" इतिच जीवात्मा स्वात्मतयाऽवस्थितेन येन परमात्मना आहितज्ञानस्सनिदं सर्व विजानाति, अयं तं केन विजानीयात्, न केनापीति परमात्मनो दुरवगमत्वमुपपाद्य ७“स एष नेतिनेति" इत्यादिनाऽयं सर्वेश्वरस्खेतरसमस्तचिदचिद्वस्तुविलक्षणस्वरूप एव सर्वशरीरस्सर्वस्याऽत्मतयाऽवस्थित इति स्वशरीरभूतचिदचिद्वस्तुगतैर्दोषैर्न स्पृश्यत इत्य
२. ३. ४-४-१०॥ ३. बू, ४-४-११॥ ४.स. ६.५-१६॥
५. बृ. ४.४-१२ ॥ ६. वृ. ४-४-१४ ॥ ७. वृ. ६-५-१५॥
For Private And Personal Use Only