________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९५
पा. ४.]
वाक्यान्वयाधिकरणम् कत्वे कस्यायमुत्क्रान्तो ब्रह्मभाव इति वक्तव्यम् ब्रह्मण एवाविद्योपाधितिरोहितखखरूपस्येति चेन, नित्यमुक्तस्वप्रकाशज्ञानस्वरूपस्याविद्योपाधितिरोधानासम्भवात्। तिरोधानं नाम वस्तुस्वरूपे विद्यमाने तत्प्रकाशनिवृत्तिः । प्रकाश एव वस्तुस्वरूपमित्यङ्गीकारे तिरोधानाभावस्वरूपनाशो वा स्यात् । अतो नित्याविर्भूतखखरूपत्वात्तस्योकान्तौ ब्रह्मभावे न कश्चिद्विशेष इति 'उत्क्रमिष्यतः' इति विशेषणं व्यर्थमेव । १" अस्माच्छरीरात्समुत्थाय" इति पूर्वमनेवंरूपस्य न तदानी ब्रह्मतापत्तिमाहः अपितु पूर्वसिद्धस्वरूपस्याविर्भावम्। तथाहि वक्ष्यते २ "सम्पद्याविर्भावस्खेनशब्दात्" इत्यादिभिः! अतः ३"अनेन जीवेनाऽत्मनाsनुपविश्य" ४" य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" ५“योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" ६" अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" इति स्वशरीरभूते जीवात्मन्यात्मतयाऽवस्थितेर्जीवशब्देन ब्रह्मप्रतिपादनमिति काशकृत्स्न आचार्यों मन्यते स्म। जीवशब्दश्च जीवस्य परमात्मपर्यन्तस्यैव वाचको न जीवमात्रस्येति पूर्वमेवोक्तम् ३"नामरूपे व्याकरवाणि" इत्यत्र । एवमात्मशरीरभावेन तादात्म्योपपादने परस्य ब्रह्मणोऽपहतपाप्मत्वसर्वज्ञत्वादिगोचरा जीवस्याविदुषश्शोचतो ब्रह्मोपासनान्मोक्षवादिन्यो जगत्सृष्टिप्रलयाभिधायिन्यो जगतो ब्रह्मतादात्म्योपदेशपराश्च सर्वाश्श्रुतयस्सम्यगुपपादिता भवन्तीति काशकृत्स्नीयमेव मतं सूत्रकारस्वीकृतवान्।अयमत्र वाक्यार्थ:
१. छा. ८-३-४॥ २. शारी. ४-४-१॥ ३. छा. ६.३.२॥
४, बृ. ५-७-२२ ॥ मा. पा॥ ५. सुबाल, ७॥ ६. आर. १-३-२१ ॥
For Private And Personal Use Only