________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९४
श्रीशारीरकमीमांसाभाष्ये
(अ. १.
यदुक्तं जीवस्य ब्रह्मकार्यतया ब्रह्मणैक्येनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थ ब्रह्मणो जीवशब्देन प्रतिपादनमिति, तदयुक्तं १"नजायते म्रियते वा विपश्चित् " इत्यादिनाऽजत्वश्रुतेर्जीवात्मनां प्राचीनकर्मफलभोगाय जगत्सृष्ट्यभ्युपगमाच्च, अन्यथा विषमसृष्ट्यनुपपत्तेश्व, ब्रह्मकार्यस्य जीवस्य ब्रह्मतापत्तिलक्षणो मोक्ष आकाशादिवदर्जनीय इति तदुपायविधानानुष्ठानानर्थक्याच्च, घटादिवत्कारणमाप्तेर्विनाशरूपत्वेन मोक्षस्या पुरुषार्थत्वाच्च । जीवात्मन उत्पत्तिप्रलयवादोपपत्तिरुत्तरत्र प्रपञ्चयिष्यते । अतः २ एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते " ३" यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ” इत्युत्क्रमिष्यतः परमात्मभावाज्जीवशब्देन परमात्मनोऽभिधानमित्यौडुलोमिराचार्यो मन्यतेस्म ॥ २१ ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
अवस्थितेरिति काशकृत्स्नः । १ । ४ । २२ ॥
यदुक्तमुत्क्रमिष्यतो जीवस्य ब्रह्मभावाद्ब्रह्मणस्तच्छब्देनाभिधानमितिः तदप्ययुक्तम्, विकल्पासहत्वात् । अस्य जीवात्मन उत्क्रान्तेः पूर्वमनेवम्भावः किं स्वाभाविकः उतौपाधिक; तत्त्रापि पारमार्थिकः, अपारमार्थिको वेति । स्वाभाविकत्वे ब्रह्मभावो नोपपद्यते, भेदस्य स्वरूपप्रयुक्तत्वेन स्वरूपे विद्यमाने तदनपायात् । अथ भेदेन सह स्वरूपमप्यपैतीति, तथा सति विनष्टत्वादेव तस्य न ब्रह्मभावः, अपुरुषार्थत्वादिदोषप्रसङ्गश्व | पारमार्थिकोपाधिकत्वे प्रागपि ब्रह्मैवेति 'उत्क्रमिष्यत एवम्भावात्' इति विशेषो न युज्यते वक्तुम् । अस्मिन्पक्षेऽह्युपाधिब्रह्मव्यतिरेकेण वस्त्वन्तराभावान्निरवयवस्य ब्रह्मण उपाधिना च्छेदाद्यसम्भवाश्वोपाधिगत एव भेद इत्युत्कान्तेः प्रागपि ब्रह्मैव । औपाधिकस्य भेदस्यापारमार्थि
1
१. कठ. १-२-१८ ॥
२. छा. ८-३-४ ॥
For Private And Personal Use Only
३. मु. ३-२-८ ॥