________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.]
वाक्यान्वयाधिकरणम्. १“आत्मनस्तु कामाय" इत्यस्य जीवात्मपरत्वेऽपि १"आत्मा वा अरे द्रष्टव्यः"इति तु परमात्मविषयमेवातत्रायमर्थः-यस्मात्पत्यादीनामिष्टसम्पतये तत्परवशेन पत्यादयः प्रियत्वेन नोपादीयन्ते, अपित्वात्मेष्टसम्पत्तये स्वतन्त्रण स्वप्रियत्वेनोपादीयन्ते ; तस्माद्य एवाऽत्मनो निरुपाधिकनिर्दोपनिरवधिकप्रियः परमात्मा स एवहि द्रष्टव्यः न दुःखमिश्राल्पमुखदुःखोदर्काः परायत्ततत्तत्स्वभावाः पतिजायापुत्रवित्तादयो विषयाः-इति । अस्मिंस्तु प्रकरणे जीवात्मवाचिशब्देनापि परमात्मन एवाभिधानात् १"आत्मनस्तु कामाय" १“आत्मा वा अरे द्रष्टव्यः" इति पूर्वोक्तप्रक्रिययोभयत्रात्मशब्दावेकविषयौ ॥१९॥
मतान्तरेणापि जीवशब्देन परमात्माभिधानोपपादनायाहप्रतिज्ञासिद्देलिङ्गमाश्मरथ्यः । १।४।२०॥ ___ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धेरिदं लिङ्गम् , यज्जीवात्मवाचिशब्दैः परमात्मनोऽभिधानम्-इत्याश्मरथ्य आचार्यों मन्यतेस्म । यद्ययं जीवः परमात्मकार्यतया परमात्मैव न भवेत् तदा तद्यतिरिक्ततया परमात्मविज्ञानादेतद्विज्ञानं न सेत्स्यति।२ "आत्मा वा इदमेक एवाग्र आसीत्" इति प्राक्रसृष्टेरेकत्वावधारणात् , ३ "यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति" इत्यादिभिर्ब्रह्मणो जीवानामुत्पत्तिश्रवणात्तस्मिन्नेव लयश्रवणाञ्च जीवानां ब्रह्मकार्यत्वेन ब्रह्मणैक्यमवगम्यते।अतो जीवशब्देन परमात्माभिधानमिति ॥ २० ॥ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥४॥२१॥
३. मु. २.१-१॥
२. ऐतरेये. १-१-१॥
50
For Private And Personal Use Only