________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
urth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९२
श्रीशारीरकमीमांसाभाष्ये प्रियमेव ह्यन्वेष्टव्यम् ; नतु प्रियं प्रति शेषिणः प्रियवियुक्तं स्वरूपम् । यस्मादात्मन इष्टसम्पत्तये पत्यादयः प्रिया भवन्ति, तस्मात्पत्यादि प्रियं परित्यज्य तद्वियुक्तमात्मस्वरूपमन्वेष्टव्यमित्यसङ्गतं भवति । प्रत्युत न पत्यादिशेषतया पत्यादीनां प्रियत्वम् ; अपित्वात्मनश्शेषतया पत्यादीनां प्रियत्वमित्युक्ते स्वशेषतया त एवोपादेयास्स्युः। १“आत्मनस्तु कामाय सर्व प्रियं भवति" इत्यस्य परेणानन्वये वाक्यभेदः प्रसज्यते । अभ्युपगम्यमानेऽपि वाक्यभेदे पूर्ववाक्यस्य न किञ्चित्प्रयोजनं दृश्यते । अतः पत्यादि सर्व प्रियं परित्यज्यात्मन एवान्येष्टव्यत्वं यथा प्रतीयते,तथा वाक्यार्थो वर्णनीयः सोऽयमुच्यते-२"अमृतत्वस्य तु नाशाऽस्ति वित्तेन"इति वित्तादीनां नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वप्राप्तयनुपायतामुक्त्वा वित्तपुत्रपतिजायादीनां सातिशयदुःखमिश्रकादाचित्कप्रियत्वमनुभूयमानं न पत्यादिस्वरूपप्रयुक्तम् , अपितु निरतिशयानन्दस्वभावपरमात्मप्रयुक्तम् । अतो य एव स्वयं निरतिशयानन्दस्सन्नन्येषामपि प्रियत्वलेशास्पदत्वमापादयति,स परमात्मैव द्रष्टव्य इत्युपदिश्यते।तदयमर्थः-१"न वा अरे पत्युः कामाय पतिः प्रियो भवति"न हि पतिजायापुत्रवित्तादयो मत्प्रयोजनायाहमस्य प्रियस्स्यामिति स्वसङ्कल्पापिया भवन्तिः अपि वात्मनः कामाय परमात्मनस्वाराधकप्रियप्रतिलम्भनरूपेष्टनिवृत्तय इत्यथैः । परमात्मा हि कर्मभिराराधितस्तत्तत्कर्मानुगुणं प्रतिनियतदेशकालस्वरूपपरिमाणमाराधकानां तत्तद्वस्तुगतं प्रियत्वमापादयति३"एष ह्येवानन्दयाति" इति श्रुतेः। न तु तत्तद्वस्तु स्वरूपेण प्रियमप्रियंवा। यथोक्तं४"तदेव प्रीतये भूत्वा पुनदुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ तस्मादःखात्मकं नास्ति न च किश्चित्सुखात्मकम्"इति ।
३. तै. आ. ७ ॥
१. वृ. ६-५-६ ॥ २.१६.५.३ ॥
For Private And Personal Use Only