________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९१
पा. ४.]
वाक्यान्षयाधिकरणम् . महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदः" इत्यादिना कृत्स्नस्य जगतः कारणत्वमुच्यमानं परमपुरुषादन्यस्य कर्मपरवशस्य मुक्तस्य निर्व्यापारस्य च पुरुषमात्रस्य न सम्भवति । तथा १"आत्मनो वा अरे दर्शनेन" इत्यादिना एकविज्ञानेन सर्वविज्ञानमभिधीयमानं सर्वात्मभूते परमात्मन्येवावकल्पते । यत्त्वेतदेकरूपत्वादात्मनामेकात्मविज्ञानेन सर्वात्मविज्ञानमुच्यत इति ; तदयुक्तम् , अचेतनप्रपञ्चज्ञानाभावेन सर्वविज्ञानाभावात् । प्रतिज्ञोपपादनाय च २“इदं ब्रह्मेदं क्षत्रम्" इत्युपक्रम्य २ "इदं सर्वे यदयमात्मा" इति प्रत्यक्षादिसिद्धं चिदचिन्मिश्रं प्रपञ्चम् 'इदम्' इति निर्दिश्य 'एतदयमात्मा' इत्यैकात्म्योपदेशश्च परमात्मन एवोपपद्यते । नहींदंशब्दवाच्यं चिदचिन्मिश्रं जगत्पुरुषेणाचित्संसृष्टेन तद्वियुक्तेन स्वरूपेण वाऽवस्थितेन चैक्यमुपगच्छति । अतएव २ "सर्व तं परादायोऽन्यत्राऽत्मनस्सर्व वेद" इति व्यतिरिक्तत्वेन सर्ववेदननिन्दा च; तथा प्रथमेच मैत्रेयीब्राह्मणे ३“महद्भतमनन्तमपारम्" इति श्रुता महत्त्वादयो गुणाः परमात्मन एव सम्भवन्ति । अतस्स एवात्र प्रतिपाद्यते । यत्तूक्तं पतिजायापुत्रवित्तपश्वादिप्रियान्वयिनो जीवात्मन उपक्रमे त्वन्वेष्टव्यतया प्रतिपादनात्तद्विषयमेवेदं वाक्यमितिः तदयुक्तम्, ४"आत्मनस्तु कामाय" इत्यात्मशब्देन जीवात्मसंशब्दने तस्य “आस्मा वा अरे द्रष्टव्यः" इत्यनेनानन्वयप्रसङ्गात्। ४"आत्मा वा अरे द्रष्टव्यः" इत्यात्मनो द्रष्टव्यत्वोपयोगितया ४"आत्मनस्तु कामाय" इत्युपदिष्टमिति प्रतीयते। आत्मनस्तु कामाय-आत्मनः कामसम्पत्तये काम्यन्त इति कामाः आत्मन इष्टसम्पत्तय इति यावत्।नच-जीवात्मन इष्टसम्पत्तये पत्यादयः प्रिया भवन्ति-इत्युक्ते सति तस्य जीवस्य स्वरूपमन्वेष्टव्यं भवति ।
३. बु. ४-४-१२ ॥ ४. इ. ६-५-६॥
२.१.६.५-७॥
For Private And Personal Use Only