SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९० श्रीशारीरकमीमांसामाग्ये [म. १. ज्ञानेन सर्वविज्ञानमुपपभम् ; देवादिस्थावरान्तेषु सर्वेषु भूतेष्वात्मस्वरूपस्य ज्ञानैकप्रकारत्वात् १इदं सर्व यदयमात्मा" इत्यैकात्म्योपदेशः देवाद्याकाराणामनात्माकारत्वात् १"सर्व तं परादात्" इत्यादिनाऽन्यत्वनिषेधश्व; २“यत्र हि द्वैतमिव भवति" इति च नानात्वनिषेधेनैकवरूपे यात्मनि देवादिप्रकृतिपरिणामभेदेन नानात्वं मिथ्येत्युच्यते; ३"तस्य ह वा एतस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदः" इत्याद्यपि प्रकृतेरधिष्ठातृत्वेन पुरुषनिमित्तत्वाज्जगदुत्पत्तेरुपपद्यते । एवमस्मिन्वाक्ये पुरुषपरे निश्चिते सति तदैकार्थ्यात्सर्वे वेदान्तास्तन्त्रसिद्धं पुरुषमेवाभिदधतीति तदधिष्ठिता प्रकृतिरेव जगदुपादानम्, नेश्वरः-इति । ..(सिद्धान्तः)...एवं प्राप्ते प्रवक्ष्महे-वाक्यान्वयात्-इति। सर्वेश्वर एवास्मिन्वाक्ये प्रतीयते कुतः?एवमेवहि वाक्यावयवानामन्योन्यान्वयस्समञ्जसो भवति । ४"अमृतत्वस्य तु नाशाऽस्ति वित्तेन" इति याज्ञवल्क्येनाभिहिते "येनाहं नामृता स्यां किमहं तेन कुर्या यदेव भगवान्वेद तदेव मे ब्रूहि" इत्यमृतत्वानुपायतया वित्ताद्यनादरेणामृतत्वप्राप्त्युपायमेव प्रार्थयमानायै मैत्रेस्यै तदुपायतया द्रष्टव्यत्वेनोपदिष्टोऽयमात्मा परमात्मैव ५"तमेव विदित्वाऽतिमृत्युमेति" ६"तमेवं विद्वानमृत इह भवति नान्यः पन्थाः"इत्यादिभिरमृतत्वस्य परमपुरुषवेदनकोपायतया प्रतिपादनात् । परमपुरुषविभूतिभूतस्य प्राप्तुरात्मनस्वरूपयाथात्म्यमपवर्गसाधनपरमपुरुषवेदनोपयोगितयाऽवगन्तव्यम् न स्वत एवोपायत्वेन । अतोऽत्र परमात्मैवामृतत्वोपायतया "द्रष्टव्यः"इत्यादिनोपदिश्यते । तथा "तस्य ह वा एतस्य १. पृ. ६-५-७ ॥ ५. श्वे. ३.८ ॥ २.. ६-५-१५॥ ६. पुरुषम् ॥ ३.६.६५-११ ॥ ७. १.६-५-६ ॥ ४. १.६-५-३,४॥ ८. बु. ६-५-११॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy