SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. बृ. ६-५-६ ॥ २. ब्रु. ४-४-१२ ॥ (श्रीशारीरकमीमांसाभाष्ये वाक्यान्वयाधिकरणम् ||६|| ) -•• वाक्यान्वयात् । १ । ४ । १९ ॥ अत्रापि कापिलतन्त्रसिद्धपुरुषतत्त्वावेदनपरं वाक्यं कचिद्दश्यत इति तदरिक्त ईश्वरो नाम न कश्चित्सम्भवतीत्याशङ्कय निराकरोति । बृहदारण्यके मैत्रेयीब्राह्मणे श्रूयते "न वा अरे पत्युः कामाय पतिः प्रियो भवति" इत्यारभ्य ?" न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः मैत्रेय्यात्मनि खबरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्" इति । तत्र संशयः - किमस्मिन्वाक्ये द्रष्टव्यतयोपदिश्यमानस्तन्त्रसिद्धः पुरुष एव अथवा सर्वज्ञस्सत्यसङ्कल्पस्सर्वेश्वरः? इति । किं युक्तम् ? पुरुष इति । कुतः ? आदिमध्यावसानेषु पुरुषस्यैव प्रतीतेः उपक्रमे तावत्पतिजायापुत्रवित्तपश्वादिप्रियत्वयोगाज्जीवात्मैव प्रतीयते मध्येऽपि २ "विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति" इत्युत्पत्तिविनाशयोगात्स एवावगम्यते तथाऽन्तेच ३ " विज्ञातारमरे केन विजानीयात् " इति स एव ज्ञाता क्षेत्रज्ञ एव प्रतीयते, नेश्वरः । अतस्तन्त्रसिद्ध पुरुषप्रतिपादनपरमिदं वाक्यमिति निश्चीयते । नतु " अमृतत्वस्य तु नाशाऽस्ति वित्तेन" इत्युपक्रमादमृतत्वप्राप्त्युपायोपदेशपरमिदं वाक्यमित्यवगम्यते। तत्कथं पुरुषप्रतिपादनपरत्वमस्य वाक्यस्य तदुच्यते-अत एव ह्यत्र पुरुषप्रतिपादनम् । तन्त्रे ह्यचिद्धर्माध्यासवियुक्त पुरुष स्वरूपयाथात्म्यविज्ञानमेवामृतस्वहेतुत्वोनोच्यते। अतो जीवात्मनः प्रकृतिवियुक्तं स्वरूपमिहामृतत्वाय १" आत्मा वा अरे द्रष्टव्यः" इत्यादिनोपदिश्यते । सर्वेषामात्मनां प्रकृतिवियुक्तस्वात्मयाथात्म्यविज्ञानेन सर्व एवात्मानो विदिता भवन्तीत्यात्मवि ३. . ६-५-१५ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy