SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [म... १८८ वेदान्तदीपे व्यः" इत्यत्र वेदितव्यतयोपदिष्टः सालथतन्त्रसिद्धः पुरुषः, उत परमात्मेति संशयः।पुरुषएव प्रकृतिवियुक्त इति पूर्वः पक्षः १ “यस्य वैतत्कर्म"इति पुण्यपापरूपकर्मसम्बन्धितयोपलक्षितत्वात्। राद्धान्तस्तु १“यस्य वैतत्कर्म"इति कर्मशब्दस्य क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् कृत्स्नं जगद्यस्य कार्यम्, स परमपुरुष एव वेदितव्यतयोपदिष्टो भवतीति । सूत्रमपि व्याख्यातम् ॥१६॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्याख्यातम् ।। २"एवमेवैष प्रज्ञात्मै तैरात्मभिर्मुझे" इत्यादिभोक्तृत्वरूपजीवलिङ्गात् , ३"अथास्मिन्प्राण एवैकधा भवति" इति मुख्यप्राणलिङ्गाच्च नायं परमात्मेति चेत्-तस्य परिहारः प्रतर्दनविद्यायामेव व्याख्यातः-पूर्वापरप्रकरणपर्यालोचनया परमात्मपरमिदं वाक्यमिति निश्चिते सति भन्यलिङ्गानि तदनुगुणतया नेतव्यानीत्यर्थः ॥ १७ ॥ ननु १"तौ ह सुप्तं पुरुषमाजग्मतुः" इति प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनादिना शरीरेन्द्रियप्राणाद्यतिरिक्तजीवात्मसद्भावप्रतिपादनपरमिदं वाक्यमित्यवगम्यत इत्यत उत्तरं पठति अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके ॥ तुशब्दश्शङ्कानिवृत्त्यर्थः । जीवसङ्कीर्तनम् अन्यार्थम्-जीवातिरिक्तब्रह्मसद्भावप्रतिबोधनार्थमिति प्रश्नप्रतिवचनाभ्यामवगम्यते । प्रश्नस्तावजीवप्रतिपादनानन्तरं १ "वैष एतद्वालाके पुरुषोऽशयिष्ट' इत्यादिकः सुषुप्तजीवाश्रयविषयतया परमात्मपर इति निश्चितः। प्रतिवचनमपि३ “अथास्मिन्प्राण एवैकधा भवति" इत्यादिकं परमात्मविषयमेव । सुप्तपुरुषाश्रयतया हि प्राणशब्दनिर्दिष्टः परमा. स्मैव४"सता सोम्य तदा सम्पन्नो भवति" इत्यादिभ्यः। जैमिनिग्रहणमुक्तस्यार्थस्य पूज्यत्वाय । अपिचैवमेक-एके वाजसनेयिनः इदमेव बालाक्यजातशत्रुसंवादगतं प्रश्नप्रतिवचनरूपं वाक्यं परमात्मविषयं स्पष्टमधीयते? "कैष एतत्" इत्यादि ५'य एषोऽन्तर्हृदय आकाशस्तस्मिञ्च्छेते” इत्येतदन्तम् ॥ १८ ॥ इति वेदान्तदीपे जगद्वाचित्वाधिकरणम् ॥ ५ ॥ १. कौषी, ४-१८ ॥ ४. छा. ६-८-१॥ ५. न. ४-१-१७॥ ३. कौषी. ४-१९॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy