________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा..] जगद्वाचित्वाधिकरणम्.
३८७ तस्मादस्मिन्वाक्ये पुरुषादर्थान्तरभूतस्य निखिलजगत्कारणस्य परस्यैव ब्रह्मणो वेदितव्यतयाऽभिधानान्न तन्त्रसिदस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्य कारणत्वं कचिदपि वेदान्ते प्रतीयत इति स्थितम् ॥ १८ ॥
इति श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम् ॥ ५ ॥
वेदान्तसारे-जगदाचित्वात् ॥ १" ब्रह्म ते ब्रवाणि " इत्युपक्रम्य १"यो वै बालाक एतेषां पुरुषाणां कतो यस्य वैतत्कर्म स वै वेदितव्यः इत्यत्र कर्मशब्दस्यैतच्छब्दसामानाधिकरण्येन क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् परमेव ब्रह्म वेदितव्यतयोपदिष्टम् ॥ १६ ॥
जीवमुख्यप्राणलिङ्गान्नेति चेत्तयाख्यातम् ॥ २"एतैरात्मभि " ३" अथास्मिन्प्राण एवैकधा भवति" इति च जीवादिलिङ्गान पर इति चेत्एतत् प्रतर्दनविद्यायामेव परिहृतम्-पूर्वापरपर्यालोचनया ब्रह्मपरत्वे निश्चिते तदनुगुणतया नेयमन्यल्लिङ्गम् इति ॥ १७ ॥ ____ अन्यान्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके ॥ १"तौ ह सुप्तं पुरुषमाजग्मतुः” इत्यादिना देहातिरिक्तजीवसद्भावप्रतिपादनं तदतिरिक्तपरमात्मसद्भावशापनार्थमिति, "क्कैष एतद्वालाके पुरुषोऽशयिष्ट" इति प्रश्नात् , ३"अथास्मिन्प्राण एवैकधा भवति" ४ 'सता सोम्य तदा सम्पन्नो भवति" इति वाक्यसमानार्थकात् प्रतिवचनाचावगम्यते। एके वाजसनेयिनोऽपि एतत्प्रतिवचनसरूपं वाक्यं स्पष्टमधीयते च, १ "कैष एतत्" इत्यादि, ५“य एषोऽन्तर्हृद्य आकाशस्तस्मिञ्च्छेते" इत्यन्तम् ॥ १८ ॥
इति वेदान्तसारे जगद्वाचित्वाधिकरणम् ॥ ५ ॥
वेदान्तदीपे-जगदाचित्वात् ॥ कौषीतकिना १ "ब्रह्म ते ब्रवाणि" इत्युपक्रम्य १“यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदित१. कौषी. ४-१८॥
४. छा. ६-८-१ ॥
५.१ ४-१-१७ ॥ ३. कौषी. ४-१९ ॥
For Private And Personal Use Only