________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८६
श्रीशारीरकमीमांसाभाग्ये [.. पुनर्जीवव्यतिरिक्तब्रह्मप्रतिबोधनपरो दृश्यते १"कैष एतद्वालाके पुरुषोऽशयिष्ट क वा एतदभूत्कुत एतदागात्" इति । व्याख्यानमपि २"यदा सुप्तस्वमं न कथञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका" इति जीवादर्थान्तरभूतपरमात्मपरमेव । सुषुप्तस्य हि जीवस्य यत्रोषितस्य जागरितस्वमदशासम्बन्धिविचित्रसुखदुःखानुभवकालुष्यविरहेण संप्रसन्नस्य स्वस्थतापत्तिः, पुनरप्यस्य यस्माद्भोगाय निष्क्रमणम् , सोऽयं परमात्मा। तथाहि ३"सता सोम्य तदा सम्पन्नो भवति" ४"प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्" इति सुषुप्तयाधारतया प्रसिद्धो जीवादर्थान्तरभूतः प्राज्ञः परमात्मा । अतः प्रश्नपतिवचनाभ्यां जीवसङ्कीर्तनं जीवादर्थान्तरभूतपरमात्मप्रतिपादनार्थमिति निश्चीयते । यदुक्तं प्रश्नव्याख्याने जीवपरे सुषुप्तिस्थानं च नाड्य एव, करणग्रामश्च प्राणशब्दनिर्दिष्टे जीव एवैकधा भवति-इति; तदयुक्तम् , नाडीनां स्वमस्थानत्वात् , उक्तरीत्या ब्रह्मण एव सुषुप्तिस्थानत्वाच्च । प्राणशब्दनिर्दिष्टे ब्रह्मण्येव जीवस्य तदुपकरणभूतवागादिकरणग्रामस्य चै कतापत्तिविभागवचनाचाअपिचैवमेके-वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे सुषुप्ताद्विज्ञानमयाद्भेदेन तदाश्रयभूतं परमात्मानमामनन्ति ५ य एष विज्ञानमयः पुरुषः कैष तदाऽभूत्कुत एतदागात्""यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदैतेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्च्छेते"इति । आकाशशब्दश्च परमात्मनि प्रसिद्धः ७"दहरोऽस्मिन्नन्तर आकाशः" इति । अतोऽत्र जीवसङ्कीर्तनं तस्मादर्थान्तरभूतस्य प्राज्ञस्य परस्य ब्रह्मणः प्रतिबोधनार्थमित्यवगम्यते। १. कौषी. ४-१८ ॥
४. वृ. ६-३-२१॥ २. कौषी, ४-१९ ॥
५. ६. बृ. ४-१-१६-१७ ॥ ३. छा. ६-८-१॥
७. छा. ८-१-१॥
For Private And Personal Use Only