________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४.]
जगद्वाचित्वाधिकरणम्.
,
"
र्वाहः प्रतर्दनविद्यायामभिहितः । एतदुक्तं भवति — यत्त्रोपक्रमोपसंहारपर्यालोचनया ब्रह्मपरं वाक्यमिति निश्चितम् तत्त्रान्यलिङ्गानि तदनुरोधेन वर्णनीयानीति तत्र प्रतिपादितम् । अत्राप्युपक्रमे २" ब्रह्म ते ब्रवाणि " इति ब्रह्मोपक्षिप्तम् ; मध्ये च १" यस्य वैतत्कर्म " इति निर्दिष्टं न पुरुषमात्रम्, अपि तु निखिलजगदेककारणं ब्रह्मैवेत्युक्तम् । उपसंहारे च २" सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रेष्ठयं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद ” इति ब्रह्मोपासनैकान्तं सर्वपापापहतिपूर्वकं स्वाराज्यं च फलं श्रुतम् ; अतोऽस्य वाक्यस्य ब्रह्मपरत्वनिश्चयेन जीवमुख्यप्राणलिङ्गान्यपि तत्परतया वर्णनीयानि - इति । प्रातर्दने छुपासावैविध्येन जीवमुख्यमाणलिङ्गानां ब्रह्मपरत्वमुक्तम् ; अत्रापि ३" अथास्मिन्प्राण एवैकधा भवति " इति सामानाधिकरण्यसम्भवे वैयधिकरण्यसमाश्रयणायोगाद्ब्रह्मण्येव प्राणशब्दप्रयोगनिश्वयेन च प्राणशरीरकब्रह्मोपासनार्थ प्राणसङ्कीर्तनं लिङ्गं युज्यते ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१. कौषी. ४-१८ ॥ २. कौषी. ४-२०
49
जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वमित्यत्राह -
अन्यार्थ त जैमिनिः प्रश्नव्याख्यानाभ्यामपि तु चैवमेके । १ । ४ । १८ ॥
३८५
तुशब्दो जीवसङ्कीर्तनेन वाक्यस्य तत्परत्वसम्भावनाव्यावृत्त्यर्थः । अन्यार्थे जीवसङ्कीर्तनं जीवातिरिक्तब्रह्मखरूपप्रतिबोधनार्थमिति जैमिनिराचार्यो मन्यते । कुतः ? प्रश्न व्याख्यानाभ्याम् ; प्रश्नस्तावत् १" तौ ह सुप्तं पुरुषमाजग्मतुः" इत्यादिना सुप्तस्य प्रबुद्धप्राणस्यैव प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनाभ्यां प्राणादिव्यतिरिक्तं जीवं प्रतिबोध्य
३. कौष. ४-१९ ॥
For Private And Personal Use Only