SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८४ श्रीशारीरकमीमांसाभाष्ये [अ. १. ब्रह्मत्वेन १ " मृषा वै खलु मा संवादयिष्ठाः " इति तमब्रह्मवादिनमपोद्य तेनाविदितब्रह्मज्ञानायाजातशत्रुणेदं वाक्यमवतारितं २" यो वै बालके " इत्यादि। पुण्यापुण्यलक्षणकर्मसम्बन्धिन आदित्याद्यधिकरणास्तत्सजातीया पुरुषास्तेनैव विदिता इति तदविदित पुरुषविशेषज्ञापनपरोऽयं कर्मशब्दो न पुण्यापुण्यमात्रवाची; क्रियामात्रवाची वा; अपि तु कृत्स्नस्य जगतः कार्यत्ववाची । एवमेव खल्वविदितोऽर्थ उपदिष्टो भवति । पुरुषस्य कर्मसम्बन्धोपलक्षितस्वाभाविक स्वरूपस्याज्ञातस्य वेदितव्यत्वोपदेशे च लक्षणा, कर्मसम्बन्धमात्रस्यैव वेदितव्यस्वरूपलक्षणत्वाद्यस्य कर्म स वेदितव्य इत्येतावतैव तत्सिद्धेः, १" यस्य वैतत्कर्म " इत्येतच्छन्दवैयर्थ्य च। १ य एतेषां कर्ता यस्य वैतत्कर्म" इति पृथङ्गिर्देशस्य चायमभिप्रायः - ये त्वया ब्रह्मत्वेन निर्दिष्टाः पुरुषाः, तेषां यः कर्ता, ते यत्कार्यभूताः, किं विशिष्याभिधीयते कृत्स्नं जगद्यस्य कार्यम्, उत्कृष्टा अपकृष्टाश्चेतना अचेतनाश्च सर्वे पदार्थ यत्कार्यत्वे तुल्याः, स परमकारणभूतः पुरुषोत्तमो वेदितव्यः - इति । जगदुत्पत्तेर्जीवकर्मनिबन्धनत्वेऽपि न जीवस्वभोग्यभोगोपकरणादेस्स्वयमुत्पादकः, अपि तु स्वकर्मागुण्येश्वरसृष्टं सर्व भुते; अतो न तस्य पुरुषान्मति कर्तृत्वमुपपद्यते । अतस्सर्ववेदान्तेषु परमकारणतया प्रसिद्धं परं ब्रह्मवात्र वेदितव्यतयोपदिश्यते ।। १६ ।। जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्वयाख्यातम् । १।४।१७ ॥ अथ यदुक्तम् - जीवलिङ्गान्मुख्यप्राणसङ्कीर्तनाच्च लिङ्गाद्भोक्तैवास्मिन्प्रकरणे प्रतिपाद्यते, न परमात्मा - इति; तव्याख्यातम् — तस्य नि १. कौषी. ४-१८ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy