________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.४]
जगद्वाचित्वाधिकरणम् . भवति यदा सुप्तस्स्वमं न कथंचन पश्यत्यथास्मिन्माण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिस्सहाप्येति मनस्सर्वानस्सहाप्येति स यदा प्रतिबुध्यते यथाग्नेज्वलतस्सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरनेवमेवैतस्मादास्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः" इति । सुषुप्त्याधारतया स्वमसुषुप्तिजागरितावस्थासु वर्तमानं वागादिकरणाप्ययोद्गमस्थानमेव जीवात्मानम् ? "अथास्मिन् प्राण एवैकधा भवति" इत्युक्तवान्।अस्मिन् जीवात्मनि प्राणभृत्त्वनिबन्धनोऽयं प्राणशब्दः १"स यदा प्रतिबुध्यते" इति प्राणशब्दनिर्दिष्टस्य प्रबोधश्रवणात् मुख्यप्राणस्येश्वरस्य च सुषुप्तिप्रबोधयोरसम्भवात्। अथवा १“अस्मिन्प्राणे" इति व्यधिकरणे सप्तम्यौ अस्मिन्नात्मनि वर्तमाने प्राण एवैकधा भवति वागादिकरणग्राम इति । प्राणशब्दस्य मुख्यप्राणपरत्वेऽपि जीव एवास्मिन्प्रकरणे प्रतिपाद्यते, स्वतः प्राणस्य जीवोपकरणत्वात् । अतो वक्तव्यतयोपक्रान्त ब्रह्म पुरुष एवेति तद्व्यतिरिक्तेश्वरासिद्धिः । कारणगताश्वेक्षणादयश्चेतनधर्मा अस्मिन्नेवोपपद्यन्त इत्येतदधिष्ठितं प्रधानमेव जगत्कारणम् ॥
-(सिद्धान्तः).-..__ इति प्राप्त प्रचक्ष्महे-जगद्वाचित्वात्-अत्र पुण्यापुण्यपरवशः क्षुद्रः क्षेत्रज्ञस्स्वस्मिन् प्रकृतिधर्माध्यासेन तत्परिणामहेतुभूतः पुरुषो नाभिधीयते; अपितु निरस्तसमस्ताविद्यादिदोषगन्धोऽनवधिकातिशयासङ्खयेयकल्याणगुणनिधिनिखिल जगदेककारणभूतः पुरुषोत्तमोऽभिधीयते।कुतः? २“यस्य वैतत्कर्म"इत्यत्रैतच्छन्दान्वितस्य कर्मशब्दस्य परमपुरुषकार्यभूतजगद्बाचित्वात् । एतच्छब्दो ह्यर्थप्रकरणादिभिरसङ्कचितवृत्तिरविशेषेण प्रत्यक्षादिप्रमाणोपस्थापितनिखिलचिदचिन्मिश्रजगद्विषयः । नच पुण्यापुण्यलक्षणं कर्मात्र कर्मशब्दाभिधेयं २"ब्रह्म ते ब्रवाणि" इत्युपक्रम्य ब्रसत्वेन बालाकिना निर्दिष्टानामादित्यमण्डलायधिकरणानां पुरुषाणाम१. कौषी. ४-१९॥
२. कौषी. ४-१८ ॥
For Private And Personal Use Only