Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०४
भीशारीरकमीमांसाभाग्ये वनानि धारयन्" इति । अत्र हि स्रष्टब्रह्मणः किमुपादानं कानि चोपकरणानीति लोकदृष्टया पृष्टे सकलेतरविलक्षणस्य ब्रह्मणस्सर्वशक्तियोगो न विरुद्ध इति ब्रह्मैवोपादानमुपकरणानि चेति परिहृतम् । अतश्चोभयं ब्रह्म ॥ २५॥
आत्मकृतेः।१।४।२६ ॥ १" सोऽकामयत बहु स्यां प्रजायेय" इति सिमुक्षुत्वेन प्रकृतस्य ब्रह्मणः २"तदात्मानं स्वयमकुरुत" इति सृष्टेः कर्मत्वं कर्तृत्वं च प्रतीयत इत्यात्मन एव बहुत्वकरणात्तस्यैव निमित्तत्वमुपादानत्वं च प्रतीयते । अविभक्तनामरूप आत्मा कर्ता, स एव विभक्तनामरूपः कार्यमिति कतत्वकर्मत्वयोर्न विरोधः। स्वयमेवाऽत्मानं तथाऽकुरुतेति निमित्तमुपादानं च ॥२६॥
३"सत्यं ज्ञानमनन्तं ब्रह्म" ४'आनन्दो ब्रह्म" ५“अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः" ६"निष्कलं निष्क्रिय शान्तं निरवयं निरञ्जनम्" ७"स वा एष महानज आत्माऽजरोऽमरः" इति स्वभावतो निरस्तसमस्तचेतनाचेतनवर्तिदोषगन्धस्य निरतिशयज्ञानानन्दैकतानस्य परस्य ब्रह्मणो विचित्रानन्तापुरुषार्थास्पदचिदचिन्मिश्रप्रपञ्चरूपेणाऽत्मनो बहुभवनसङ्कल्पपूर्वकं बहुत्वकरणं कथमुपपद्यत इत्याशङ्कयाह
परिणामात् । १।४।२७॥ परिणामस्वाभाव्यात् नानोपदिश्यमानस्य परिणामस्य परस्मिन्ब१. ते. भा. ६-२ ॥
५. छा. ८-१-५॥ २. ते. आ. ७-१॥
६. श्वे. ६-१९ ॥ ३. ते. आ. १.१॥
७. १. ६-४-२५ ॥ ४. ते भृ. ६॥
For Private And Personal Use Only

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465