SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०४ भीशारीरकमीमांसाभाग्ये वनानि धारयन्" इति । अत्र हि स्रष्टब्रह्मणः किमुपादानं कानि चोपकरणानीति लोकदृष्टया पृष्टे सकलेतरविलक्षणस्य ब्रह्मणस्सर्वशक्तियोगो न विरुद्ध इति ब्रह्मैवोपादानमुपकरणानि चेति परिहृतम् । अतश्चोभयं ब्रह्म ॥ २५॥ आत्मकृतेः।१।४।२६ ॥ १" सोऽकामयत बहु स्यां प्रजायेय" इति सिमुक्षुत्वेन प्रकृतस्य ब्रह्मणः २"तदात्मानं स्वयमकुरुत" इति सृष्टेः कर्मत्वं कर्तृत्वं च प्रतीयत इत्यात्मन एव बहुत्वकरणात्तस्यैव निमित्तत्वमुपादानत्वं च प्रतीयते । अविभक्तनामरूप आत्मा कर्ता, स एव विभक्तनामरूपः कार्यमिति कतत्वकर्मत्वयोर्न विरोधः। स्वयमेवाऽत्मानं तथाऽकुरुतेति निमित्तमुपादानं च ॥२६॥ ३"सत्यं ज्ञानमनन्तं ब्रह्म" ४'आनन्दो ब्रह्म" ५“अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः" ६"निष्कलं निष्क्रिय शान्तं निरवयं निरञ्जनम्" ७"स वा एष महानज आत्माऽजरोऽमरः" इति स्वभावतो निरस्तसमस्तचेतनाचेतनवर्तिदोषगन्धस्य निरतिशयज्ञानानन्दैकतानस्य परस्य ब्रह्मणो विचित्रानन्तापुरुषार्थास्पदचिदचिन्मिश्रप्रपञ्चरूपेणाऽत्मनो बहुभवनसङ्कल्पपूर्वकं बहुत्वकरणं कथमुपपद्यत इत्याशङ्कयाह परिणामात् । १।४।२७॥ परिणामस्वाभाव्यात् नानोपदिश्यमानस्य परिणामस्य परस्मिन्ब१. ते. भा. ६-२ ॥ ५. छा. ८-१-५॥ २. ते. आ. ७-१॥ ६. श्वे. ६-१९ ॥ ३. ते. आ. १.१॥ ७. १. ६-४-२५ ॥ ४. ते भृ. ६॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy