SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४.] प्रकृत्यधिकरणम्. ज्ञेयं प्रसुप्तमिव सर्वतः" इति। १“अस्मान्मायी सृजते विश्वमेतत्" इत्याचनन्तरमेवोपपादयिष्यते; ब्रह्मणोऽपरिणामित्वश्रुतयश्च । यत्त्वेकस्य निमित्तत्वमुपादानत्वं च न सम्भवति, एककारकनिष्पाद्यत्वं च कार्यस्य ; लोके तथा नियमदर्शनात् । अतोऽग्निना सिञ्चेदितिवद्वेदान्तवाक्यान्येकस्मादेवोत्पत्तिं प्रतिपादयितुं न प्रभवन्तीति । अत्रोच्यते-सकलेतरविलक्षणस्य परस्य ब्रह्मणस्सर्वशक्तेस्सर्वज्ञस्यैकस्यैव सर्वमुपपद्यते । मृदादेरचेतनस्य ज्ञानाभावेनाधिष्ठातृत्वायोगादधिष्ठातुः कुलालादेविचित्रपरिणामशक्तिविरहादसत्यसङ्कल्पतया च तथा दर्शननियमः । अतो ब्रह्मैव जगतो निमित्तमुपादानं च ॥ २३ ॥ अभिध्योपदेशाच्च । १।४।२४ ॥ इतश्चोभयं ब्रह्मैव, २ “सोऽकामयत बहु स्यां प्रजायेयेति" ३ "तदैक्षत बहु स्यां प्रजायेय"इति स्रष्टुब्रह्मणस्वस्यैव बहुभवनसङ्कल्पोपदेशात्। विचित्रचिदचिद्रपेणाहमेव बहु स्यां तथा प्रजायेयेति सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते ॥ २४ ॥ साक्षाच्चोभयाम्नानात् । १।४।२५॥ न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिरयमों निश्चीयते,ब्रह्मण एव निमित्तत्वमुपादानत्वं च साक्षादाम्नायते ४"किं विद्वनं क उस वृक्ष आसीद्यतो द्यावापृथिवी निष्टतथुः । मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टताः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भ१. श्वे ४.९॥ ३. छा. ६-२-३ ॥ २.ते. भा. ६.२ ॥ | ४. अष्ट. २-प्र. ८. अनु. ७-५-८ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy