________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२ श्रीशारीरकमीमासामाग्ये
[म. १. आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" इति च सर्वचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतं परं ब्रह्म कदाचिद्विभक्तनामरूपम् , कदाचिच्चाविभक्तनामरूपम् ; यदा विभक्तनामरूपं तदा तदेव बहुत्वेन कार्यत्वेन चोच्यते ; यदा चाविभक्तनामरूपं तदैकमद्वितीयं कारणमिति च । एवं सर्वदा चिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणोऽविभक्तनामरूपा या कारणावस्था सा १“गौरनाद्यन्तवती" १"विकारजननीमज्ञाम्"२ "अजामेकाम्"इत्यादिभिरभिधीयते-इति। ननु च ३"महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते" इति प्रलयश्रुतेरव्यक्तस्योत्पत्तिप्रलयौ प्रतीयेते; तथा च महाभारते ४"तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम" ५'अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते" इति । नैष दोषः, अचिद्वस्तुशरीरस्य ब्रह्मणोऽव्यक्तशब्दवाच्यायास्त्रिगुणावस्थायाः कार्यत्वात् । ६“यदा तमस्तन्न दिवा न रात्रिः" इति कृत्स्नप्रलयदशायामपि ब्रह्मात्मकस्यातिसूक्ष्मस्याचिद्वस्तुनस्स्थित्यभिधानाज्जगत्कारणस्य परस्य ब्रह्मणः प्रकारभूतमतिसूक्ष्मं चाचिद्वस्तु नित्यमेवेति तत्पकारं ब्र
झैव ७"गौरनाद्यन्तवती" इत्यादिष्वभिधीयते । अत एव च ८"अक्षरं तमसि लीयते तमः परे देव एकी भवति" इति तमस एकीभावमात्रमेव श्रूयते ; न तु लयः। एकीभाव इति तमोभिधानातिसूक्ष्माचित्पकारस्य ब्रह्मणोऽविभक्तनामरूपतयाऽवस्थानमभिधीयते । ९"तम आसीत्तमसा गूढमग्रे प्रकेत तमसस्तन्महिनाजायतैकम्" इत्याद्यप्येतदेव वदति । तथा च मानवं वचः १०"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतय॑मवि१, मन्त्रिकोप ॥ २. थे. ४-५ ॥
७. मन्त्रिकोप।। ८. सुवा. २॥ ३. सुबा. २ ॥ ४,५. भारते. शान्ति, मोक्ष. ८-१३,१४॥। १०. ममुः.१.५॥
For Private And Personal Use Only