Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 422
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ४.] प्रकृत्यधिकरणम् . मेवावस्थान्तरापनं कार्यम्, न द्रव्यान्तरमिति कार्यकारणरूपेणावस्थितमृत्तद्विकारादिनिदर्शनेन प्रतिज्ञासमर्थनाद्ब्रह्म जगदुपादानं चेति निश्चीयते । यतु निमित्तोपादानयोर्भेदश्श्रुत्यैव प्रतीयत इति तदसत्, निमित्तोपादानयोरैक्यप्रतीतेः १ “उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति" इति । आदिश्यते प्रशिष्यतेऽनेनेत्यादेशः, २" एतस्य वा अक्षरस्य प्रशासने गार्गि" इत्यादिश्रुतेः । साधकतमत्वेन कर्ता विवक्षितः । तमादेष्टारमप्राक्ष्यः, येनाश्रुतं श्रुतं भवति, येनादेष्टाऽधिष्ठात्रा श्रुतेनाश्रुतमपि श्रुतं भवतीति निमित्तोपादानयोरैक्यं प्रतीयते, ३" सदेव सोम्येदमग्र आसीदेकमेव " इति प्राक्सृष्टेरेकत्वावधारणादद्वितीयपदेनाधिष्ठात्रन्तरनिवारणाच्च । नन्वेवं सति ४" विकारजननीम् " ४ "गौर नायन्तवती " इत्यादिभिः प्रकृतेराद्यन्तविरहेण नित्यत्वं जगदुपादानत्वं च श्रूयमाणं कथमुपपद्यते । तदुच्यते तत्राप्यविभक्तनामरूपं कारणावस्थं ब्रह्मैव प्रकृतिशब्देनाभिधीयते ब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् । तथाहि श्रुतयः ५" सर्वे तं परादाद्योऽन्यत्त्राऽत्मनस्सर्व वेद" ६ "यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्" इत्याद्याः ; ७" सर्व खल्विदं ब्रह्म" " ऐतदात्म्य - मिदं सर्वम्" इति कार्यावस्थं कारणावस्थं च सर्व जगद्ब्रह्मात्मकमिति श्रवणाच्च । एतदुक्तं भवति - ९ “ यः पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्यारभ्य ९ “ योऽव्यक्तमन्तरे सञ्चरन्यस्याव्यक्तं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद ” १०" यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति" इत्यारभ्य ११ “य ८ १. छा. ६-१-३ ॥ २. बृ. ५-८-९ ॥ ३. छा. ६-२-१॥ ४ मन्त्रिकोपनिषदि ॥ ५. बृ. ६-५-७ ॥ ६ . ६-५-१५ ॥ 51 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ४०१ ७. छा. ३-१४-१ ॥ ८. छा. ६-८-७ ॥ ९. सुबा. ७ ॥ १०. बृ. ५-७-३ ॥ ११. बु. ५-७-२२ ॥

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465