SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१६ वेदान्तदीपे [अ. १ वेदान्तदीपे - दहर उत्तरेभ्यः।। छान्दोग्ये १ अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्" इत्यत्र हृदयपुण्डरीकमध्यवर्ती दहराकाशश्श्रूयमाणः किं भूताकाशः ? उत जीवः ? अथ परमात्मा - इति संशयः । प्रथमं तावद्भूताकाश इति युक्तमाश्रयितुमिति पूर्वः पक्षः, आकाशशब्दस्य भूताकाशे प्रसिद्विप्राचुर्यात्, आकाशान्तर्वर्तिनो ऽन्यस्यान्वेष्टव्यताप्रतीतेश्च । राद्धान्तस्तु२" किं तदत्र विद्यते यदन्वेष्टव्यम्" इति चोदिते, ३" यावान्वा अयमाकाशः" इत्यारभ्य, ४ " एतत्सत्यं ब्रह्मपुरम्" इत्यन्तेन दहराकाशस्यातिमहत्त्व सर्वाश्रयत्वाजरत्व सत्यत्वाद्यभिधाय, ४' अस्मिन्कामास्समाहिताः" इत्याकाशान्तर्वर्तिनोऽन्वेष्टव्याः कामा इति प्रतिपाद्य, कोऽयं दहराकाशशब्दनिर्दिष्टः ? के तदाश्रयाः कामाः ? इत्यपेक्षायाम्, ४" एष आत्माऽपहतपाप्मा" इत्यारभ्य, ४" सत्यसङ्कल्पः" इत्यन्तेन आकाशशब्दनिर्दिष्टः आत्मा, कामाश्चापहतपाप्मत्वादयस्तद्विशेषणभूता इति प्रतिपादयद्वाक्यमपहतपाप्मत्वादिविशिष्टपरमात्मानमाह । उपक्रमे चान्वेष्टव्यतया प्रतिज्ञात आकाशः आत्मा, एतद्विशेषणभूताः अपहतपाप्मत्वादयः कामा इति वाक्यं ज्ञापयत् ५ " अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लोकेषु कामचारो भवति" इत्युपसंहरति । अतोऽयं दहराकाशोऽपहतपाप्मत्वादिविशिष्टः परमात्मेति निश्चीयते, न भूताकाशादिरिति । एवं तर्ह्यस्मिन्वाक्ये ६ "अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय " इति प्रत्यगात्मप्रतीतेः, तस्य चोत्तरत्र प्रजापतिवाक्ये ऽपहतपाप्मत्वादिगुणकत्वावगमात् प्रत्यगात्मैव दहराकाश इति पूर्वपक्षी मन्यते । राद्धान्ती - प्रत्यगात्मा कर्मपरवशतया जागरितस्वप्नसुषुत्याद्यवस्थाभिः तिरोहितापहतपाप्मत्वादिकः परमात्मानमुपसम्पन्नः तत्प्रसादादाविर्भूतगुणकः प्रजापतिवाक्ये प्रतिपादितः । दहराकाशस्त्वतिरोहितनिरुपाधिकापहतपाप्मत्वादिकः प्रत्यगात्मन्यसम्भावनीयजगद्विधरणसमस्तचिदचिद्वस्तु नियमनाद्यनन्तगुणकः प्रतिपन्न इति नायं प्रत्यगात्मा दहराकाशः, अपितु परमात्मैवेति म न्यते । सूत्रार्थस्तु — दहराकाशः परं ब्रह्म, उत्तरेभ्यः- उत्तरवाक्यगतेभ्यो ऽपहतपाप्मत्वादिपरमात्मा साधारणधर्मेभ्यो हेतुभ्यः ॥ १३ ॥ १. छा. ८-१-१॥ २. छा. ८-१-२ ॥ ३. छा. ८-१-३ ॥ www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir ४. छा. ८-१-५ ॥ ५. छा. ८-१-६ ॥ ६. छा. ८-३-४ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy