________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दहराधिकरणम् विधृतिः" इति जगद्धतेः परमात्मनो महिनोऽस्मिन् दहराकाशे उपलब्धेश्चायं परः; सा हि परमात्ममहिमा, १ "एष सेतुर्विधरणः” इत्यादिश्रुतेः ॥ १५ ॥
प्रसिद्धेश्व ॥ आकाशशब्दस्य २"यदेष आकाश आनन्दः" इति परमा. स्मन्यपि प्रसिद्धश्चायं परः; सत्यसङ्कल्पत्वादिगुणवृन्दोपबृंहिता प्रसिद्धिः भूता. काशप्रसिद्धर्बलीयसीत्यर्थः॥१६॥
इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ ३“अथ य एष सम्प्रसादः" इतीतरस्य जीवस्य परामर्शात् प्रकृताकाशस्स इति चेत्-नैतत् , उक्तगुणानां तत्रासम्भवात् ॥१७॥
उत्तराच्चेदाविर्भूतखरूपस्तु ।। उत्तरत्र"य आत्मा अपहतपाप्मा"इति जीवस्य अपहतपाप्मत्वादिश्रवणान्नासम्भवः, जागरितस्वप्नसुषुप्तवाद्यवस्थासु वर्तमानत्वात् स हि जीव इति चेत् नैतत् , आविर्भूतखरूपस्तु-कर्मारब्धशरीरसम्बन्धित्वेन तिरोहितापहतपाप्मत्वादिकः पश्चात् परं ज्योतिरुपसम्पद्याऽविर्भूतखरूपः तत्र अपहतपाप्मत्वादिगुणको जीवः प्रतिपादितः। दहरा. काशस्तु अतिरोहितकल्याणगुणसागर इति नायं जीवः ॥१८॥
___ अन्यार्थश्च परामर्शः ॥ ३ "अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते' इति जीवात्मनो दहराकाशोपसम्पत्त्या खरूपाविर्भावापादनरूपमाहात्म्यप्रतिपादनार्थोऽत्र जीवपरामर्शः॥ १९॥ __अल्पश्रुतेरिति चेत्तदुक्तम् ।। अल्पस्थानत्वस्वरूपाल्पत्वश्रुतेर्नायं परमा. स्मेति चेत्-तत्रोत्तरमुक्तम् ५“निचाय्यत्वादेवं व्योमवञ्च" इति ॥ २० ॥
___ अनुकृतेस्तस्यच ॥ तस्य दहराकाशस्य परअयोतिषः, अनुकरणश्रवणाच जीवस्य न जीवो दहराकाशः, ६“स तत्र पर्येति जक्षत् क्रीडन् रममा. णः" इत्यादि स्तदुपसम्पत्त्या स्वच्छन्दवृत्तिरूपस्तदनुकारश्श्रूयते ॥२१॥
अपि स्मयते ॥ ७"इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्तिच" इति ॥ २२ ॥
इति वेदान्तसारे दहराधिकरणम् ॥ ५ ॥
१... ६-४-२२॥ २. ते.आन. ७-१॥ ३. . ८-३-४॥ ४. छा. ८-७-१॥
५. शारी. १.२-७ ॥ ६. छा. ८-१२-३ ॥ ७.मी. १४.३॥
For Private And Personal Use Only