SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ वेदान्तसारे [म.१. ते" १"धुभ्वाद्यायतनं खशब्दात्" इत्यधिकरणद्वयेन तस्य प्रकरणस्य परब्रह्मविषयत्वप्रतिपादनात् "ज्योतिश्चरणाभिधानात्" इत्यादिषु परस्य ब्रह्मणो भारूपत्वावगतेश्च पूर्वपक्षानुत्थानादयुक्तम्:सूत्राक्षरश्वैरूप्यं च ॥ इति श्रीशारीरकमीमांसाभाष्ये दहराधिकरणम् ॥ ५ ॥ वेदान्तसारे-दहर उत्तरेभ्यः॥ ४"अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिशासितव्यम्" इत्यत्र दहराकाशशब्दनिर्दिष्टः परमात्मा, उत्तरेभ्यः वाक्यगतेभ्यः तदसाधारणधर्मेम्यः । उत्तरत्र दहराकाशस्य सर्वाधारतयाऽतिमहत्वमभिधाय, एतत्सत्यं ब्रह्माख्यं पुरमिति निर्दिश्य,तस्मिन् ब्रह्मास्ये दहराकाशे का. मास्समाहिताः इत्युक्ते कोऽयं दहराकाशकेच कामाः? इत्यपेक्षायाम्, ५"एष आत्मा अपहतपाप्मा" इत्यारभ्य ५"सत्यकामस्सत्यसङ्कल्पः" इत्यन्तेन दहराकाशः आत्मा; कामाश्च अपहतपाप्मत्वादयः तद्विशेषणभूतगुणा इति हि शापयति। ४"दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इत्यत्र दहराकाशस्तदन्तर्वर्तिच यत्, तदुभयमन्वेष्टव्यमित्युक्तमिति विज्ञायते; ६“अथ य इहात्मानमनुविद्य वजन्त्येतांश्च सत्यान् कामान्" इतिहि व्यज्यते ? ॥ १३ ॥ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गश्च।। ७"एवमेवेमास्सर्वाः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति" इत्यहरहस्सर्वासां प्रजानामजानतीनां दहराकाशोपरि गतिः - वर्तनम्, दहराकाशसमानाधिकरणो ब्रह्मलोकशब्दश्च दहराकाशः परं ब्रह्मेति शापयति । तथाह्यन्यत्र सर्वासां परमात्मोपरि वर्तमानत्वं दृष्टम् ,"तस्मिन् लोकाश्रितास्सर्वे'९"तदक्षरे परमे प्रजाः" इत्या. दौ। ब्रह्मलोकशब्दश्च १."एष ब्रह्मलोकः"इत्यादौ । अन्यत्र दर्शनाभावेऽपि इदमेव पर्याप्तम् अस्य परमात्मत्वे लिङ्गम्, यहहराकाशोपरि सर्वस्य वर्तमानत्वम् , ब्रह्मलोकशब्दश्च ॥ १४॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥ ११"अथ य आत्मा स सेतु. १.शारी. १.३-१॥ २. शारी. १-१-२५॥ ७. छा. ८-३-२ ॥ ८. कठ. २-६-१ ॥ ३. वरुप्याच्च. पा॥ ४. छा, ८-१-१॥ .९ ते. नारायण, ६.१.३॥ ५. छा. ८-१-५॥ ६. छा. ८.१-६॥ १....२-३-३३॥ ११. छा, ८.४.२॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy