________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३.]
दहराधिकरणम्
३१३
व्यम्, तत्पूर्वमेवोक्तं १" निचाय्यत्वादेवम्" इत्यनेन । अतो दहराका - शोनाघाताविद्याद्यशेषदोषगन्धः स्वाभाविकनिरतिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यपरिमितोदारगुणसागरः पुरुषोत्तम एव । प्रजापतिवाक्यनिर्दिष्टस्तु २' घ्नन्ति त्वेवैनं विच्छादयन्ति इत्येवमादिभिरवगतकर्मनिमितदेहपरिग्रहः पश्चात्परञ्जयोतिरूपसम्पद्याऽऽविर्भूतापहतपाप्मत्वादिगुणस्वस्वरूप इति न दहराकाशः ।। २० ।।
इतश्चैतदेवम्
Acharya Shri Kailassagarsuri Gyanmandir
अनुकृतेस्तस्य च |१|३|२१॥
तस्य - दहराकाशस्य परस्य ब्रह्मणः, अनुकारात्-अयमपहतपाप्पत्वादिगुणको विमुक्तबन्धः प्रत्यगात्मा न दहराकाशः । तदनुकारःतत्साम्यम् । तथाहि प्रत्यगात्मनो विमुक्तस्य परब्रह्मानुकारश्श्रूयते ३ “यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " इति । अतोऽनुकर्ता प्रजापतिवाक्यनिर्दिष्टः । अनुकार्ये ब्रह्म दहराकाशः ।। २१ ।।
अपि स्मर्यते । १ । ३ ॥२२॥
१. शारी. १-२-७ ॥
२. छा. ८-१०-२ ॥
३. मु. ३-१-३ ॥
40
संसारिणोऽपि मुक्तावस्थायां परमसाम्यापत्तिलक्षणः परब्रह्मानुकारः स्मर्यते ४ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च " इति ॥
केचित् - 'अनुकृतेस्तस्यच'' अपि स्मर्यते ' इति सूत्रद्वयमधिकरणान्तरं ५“तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इत्यस्याश्श्रुतेः परब्रह्मपरत्वनिर्णयाय प्रवृत्तं वदन्ति । तत्तु - ६ "अदृश्यत्वादिगुणको धर्मो
४. गी. १४-२ ॥
५. मु. २-२-१० ॥
६. शारी. १-२-२२ ॥
For Private And Personal Use Only