SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૨ श्रीशारीरकमीमांसामान्ये (म.१. शिष्ट एव दहराकाशः प्रतीयते । आविर्भूतस्वरूपस्यापि जीवस्यासम्भावनीयास्सेतुत्वसर्वलोकविधरणत्वादयस्सत्यशब्दनिर्वचनावगतं चेतनाचेतनयोनियन्तृत्वं दहराकाशस्य परब्रह्मतां साधयन्ति । सेतुत्वसर्वलोकविधरणत्वादय आविर्भूतस्वरूपस्यापि न सम्भवन्तीति १“जगद्व्यापारवर्जम्" इत्यत्रोपपादयिष्यामः ॥ १८॥ यद्येवम्, दहरवाक्ये २“अथ य एष सम्प्रसादः"इत्यादिना जीवप्रस्तावः किमर्थः- इति चेत्-तवाह अन्यार्थश्च परामर्शः। १।३। १९ ॥ दहराकाशस्यैवापहतपाप्मत्वजगद्विधरणत्वादिवन्मुक्तस्य तदुपसम्पत्याऽपहतपाप्मत्वादिकल्याणगुणविशिष्ट स्वाभाविकरूपप्राप्तिकथनेन तदेतुत्वरूपं परमपुरुषासाधारणं गुणमुपदेष्टुं प्रजापतिवाक्योक्तस्य जीवस्यात्र परामर्शः; प्रजापतिवाक्ये च मुक्तात्मस्वरूपयाथात्म्यविज्ञानं दहरविद्योपयोगितयोक्तम् । ब्रह्मप्रेप्सोहि जीवात्मनस्वस्वरूपं च ज्ञातव्यमेव; स्वयमपि कल्याणगुण एव सन्ननवधिकातिशयासंख्येयकल्याणगुणगणं परं ब्रह्मानुभविष्यतीति ब्रह्मोपासनफलान्तर्गतत्वात्स्वरूपयाथात्म्यविज्ञानस्य । ३" सर्वाश्च लोकानामोति सर्वांश्च कामान्" "स तत्र पर्येति जक्षत्कीडन्" इत्यादिकं प्रजापतिवाक्ये कीर्त्यमानं फलमपि दहरविद्याफलमेव ॥ १९ ॥ अल्पश्रुतेरितिचेत्तदुक्तम् । १।३।२०॥ ५"दहरोऽस्मिन्" इत्यल्पपरिमाणश्रुतिराराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज्ज्यायसो ब्रह्मण इति चेत्-तत्र यदुत्तरं वक्त१. शारी. ४-४-१७॥ ३. छा. ८.१२.६ ॥ २.छा. ८.३-४॥ ४. छा. ८.१२.१ ॥ ५.छा. ८.१.१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy