________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] दहराधिकरणम्.
३११ युक्तः" इति यथोक्तस्वरूपस्यैव संसारदशायां कर्मतन्त्र शरीरयोगं युग्यशकटयोगदृष्टान्तेनाभिधाय १“अथ यौतदाकाशमनुविषण्णं चक्षुस्स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहारय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् । अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः" इति चक्षुरादीनां करणत्वं रूपादीनां ज्ञेयत्वमस्य च ज्ञातृत्वं प्रदर्य तत एव शरीरेन्द्रियेभ्योऽस्य व्यतिरेकमुपपाय २ "स वा एष एतेन दिव्येन चक्षुषा मनसैतान्कामान्पश्यत्रमते य एते ब्रह्मलोके" इति तस्यैव विधृतकर्मनिमित्तशरीरेन्द्रियस्य मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वकामानुभवमुक्त्वा २"तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आप्तास्सर्वे च कामाः" इत्येवंविधमात्मानं ज्ञानिनो जानन्तीत्यभिधाय ३"सर्वांश्च लोकानामोतिं सर्वाश्व कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच" इत्येवंविधमात्मानं विदुषस्सर्वलोकसर्वकामावाप्त्युपलक्षितं ब्रह्मानुभवं फलमभिधायोपसंहृतम् । अतस्तत्रापहतपाप्मत्वादिगुणको ज्ञातव्यतया प्रक्रान्तो जीव एवेत्यवगतम् । अतो जीवस्यापहतपापत्वादयस्सम्भवन्ति । अतो दहरवाक्यशेषे श्रूयमाणस्य जीवस्यापहतपाप्मत्वादिगुणसम्भवात्स एव दहराकाश इति निश्चीयते इति चेत् -इति ॥
___--(सिद्धान्तः)---- सलाह-आविर्भूतखरूपस्तु-इति । पूर्वमनृततिरोहितापहतपाप्मत्वादिगुणकवरूपः पश्चाद्विमुक्तकर्मबन्धश्शरीरात्समुत्थितः परं ज्योतिरुपसम्पन्न आविर्भूतस्वरूपस्सन्नपहतपाप्मत्वादिगुणविशिष्टस्तत्र प्रजापतिवाक्येऽभिधीयते ; दहरवाक्ये त्वतिरोहितस्वभावापहतपाप्मत्वादिवि.. १. छा. ८-१२.४,५॥
२. छा. ८-१२-६ ॥
-
-
For Private And Personal Use Only