SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० भीशारीरकमीमांसामान्ये [म.१. उत्तराच्चेदाविर्भूतस्वरूपस्तु।१।३।१८॥ उत्तरात्-प्रजापतिवाक्यात् , जीवस्यैवापहतपाप्मत्वादिगुणयोगो निश्चीयत इति चेत्-एतदुक्तं भवति-प्रजापतिवाक्यं जीवपरमेव, तथाहि १“य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासिव्यस्स सर्वांश्च लोकानामोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति"इति प्रजापतिवचनमैतिह्यरूपेणोपश्रुत्यान्वेष्टव्यात्मस्वरूपजिज्ञासया प्रजापतिमुपसेदुषेमघवते प्रजापतिर्जागरितस्वमसुषुप्त्यवस्थं जीवात्मानं सशरीरं क्रमेण शुश्रूपुयोग्यतापरीचिक्षिषयोपदिश्य तत्रतत्र भोग्यमपश्यते परिशुद्धात्मस्वरूपोपदेशयोग्याय तस्मै मघवते २"मघवन्मयै वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानम्" इति शरीरस्याधिष्ठानतामास्मनश्वाधिष्ठातृतामशरीरस्य च तस्यामृतत्वस्वरूपतां चोक्वा २"न ह वै सशरीरस्य सतः प्रियापिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इति कारब्धशरीरयोगिनस्तदनुगुणसुखदुःखभागित्वरूपानर्थ तद्विमोक्षेच तदभावमभिधाय "एवमेवैष सम्पासादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति जीवात्मनस्वरूपमेव शरीरवियुक्तमुपदिदेश । ४"स उत्तमः पुरुषः स तत्र पर्येति जक्षकीडब्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरनिदं शरीरम्" इति प्राप्यस्य परस्य ज्योतिषः पुरुषोत्तमत्वम्, नितचतिरोधानस्य परं ज्योतिरुपसम्पन्नस्य प्रत्यगात्मनो ब्रह्मलोके यथे टभोगावाप्तिम् , प्रियाप्रियावियुक्तकर्मनिमित्तशरीराद्यपुरुषार्थाननुसन्धा नं चाभिधाय "स यथा प्रयोग्य आचरणे युक्त एवमस्मिन् शरीरे प्राणो १.छा. ८.७-१॥ २. छा. ८-१२-२॥ ३. छा. ८-१२-२॥ ४. छा. ८-१२-३॥ . For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy