SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] बहराधिकरणम् . नामसम्भेदाय" इति, "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इत्यादिभ्यः । स चायं तस्य परस्य ब्रह्मणो धृत्याख्यो महिमाऽस्मिन्दहराकाश उपलभ्यते । अतो दहराकाशः परं ब्रह्म ॥१५॥ प्रसिद्धेश्च । १ ॥३॥ १६ ॥ आकाशशब्दश्च परस्मिन्ब्रह्मणि प्रसिद्धः २“को वाऽन्यात्कः पाण्यात् । यदेष आकाश आनन्दो न स्यात्" ३ "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते"इत्यादिषु, अपहतपाप्मत्वादिगुणसनाया प्रसिद्धि ताकाशपसिद्धेर्बलीयसीत्यभिप्रायः ॥ १६॥ एवं तावद्दहराकाशस्य भूताकाशत्वं प्रतिक्षितम् । अथेदानी दहराकाशस्य प्रत्यगात्मत्वमाशङ्कय निराकर्तुमुपक्रमतेइतरपरामर्शात्स इतिचेन्नासम्भवात्।।३।१७॥ ___ यदुक्तं वाक्यशेषवशादहराकाशः परं ब्रह्मेति, तदयुक्तम् ,वाक्यशेषे परस्मादितरस्य जीवस्यैव साक्षात्परामर्शात् ४॥ अथ य एष सम्मसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते एष आत्मेतिहोवाच एतदमृतमभयमेतद्ब्रह्म"इति । यद्यपि ५"दहरोऽस्मिन्नन्तर आकाशः" इति हृदयपुण्डरीकमध्यवर्तितयोपदिष्टस्याकाशस्योपमानोपमेयभावाद्यसम्भवाद्भूताकाशत्वं न सम्भवति, तथापि वाक्यशेषवशात्मत्यगात्मत्वं युक्तमाश्रयितुम् । आकाशशब्दोऽपि प्रकाशादियोगाजीव एव वर्तिष्यत इति चेत्-अत्रोत्तरं-नासम्भवात्-इति। नायं जीवः, नापहतपाप्मत्वादयो गुणा जीवे सम्भवन्ति ॥ १७ ॥ १. ३. ५.८.९ ॥ ४. छा. ८-३-४॥ २. ते, आन. ७॥ ३. छा. १-९-१॥ ५. छा. ८-१-१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy